SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ ४४९ उद्देशक : ३, मूलं-९२, [भा. ४२०३] {भा.४२०३]एतं पि मा उज्झह देह मझं, मज्झमगा गेण्हह एक दो वा। अत्तट्टिए होति कदायि सव्वे, सव्वे विकप्पंति विसोधि एसा ।। वृ. “एनमपि' वस्त्रप्रत्यवतारमकल्पनीयतया मा यूयमुज्झत किन्तु मह्यं प्रयच्छत, मदीयप्रत्यवतारात् चैकं द्वोवा यूयं गृह्णीत । अथ तेन बहवः प्रत्यवताराः क्रीतास्ततः को विधिः? इत्याह-यान्प्रत्यवतारान् एकंवा द्वौ वा त्रीन् वास दाता आत्मार्थयति सर्वांन् वा कदाचिदात्मार्थं करोति तदा सर्वेऽपि कल्पन्ते । एष विशोधिकोटिविषयो विधिरुक्तः ।। अथाविशोधिकोटिविषयं तमेवाह[भा.४२०४] उग्गमकोडीए वि हु, संछोभो तहेव होतऽनिदिहे। इयरम्मि वि संछोभो, जइ सो सेहो सयं भणइ॥ दृ-उद्गमकोटि म-आधाकर्मादयो अविशोधिकोटयो दोषाः तेष्वपि यद् 'अनिर्दिष्टम्' 'इदं साधूनां दास्यामि इदं मम भविष्यति' इति निर्देशमन्तरेण वस्त्रदि कृतं तत् कल्पते । “संछोभ तहेव होअनिहिडि' त्ति अनिर्दिष्टेऽपि यद्यसौ दाता ब्रूयात्-यैर्वस्त्रयूयं निमन्त्रिता यदि तानि नेछथ तत इमानि मत्परिगृहीतानि गृहीत, यानि युष्माभि प्रतिषिद्धानि तानि मम भविष्यन्ति। एवमसौ “संछोभं'' प्रक्षेपकं कृत्वा यदि ददाति तर्हि सर्वाण्यपि कल्पन्ते। “इतरम्मि विसंछोभो" त्ति इतरद् नाम-निर्दिष्टं तत्रापि संछोभो यदि स्यात् ततः कल्पते । संछोभः पुनरयम्-यद्यसौ गृहस्थशैक्षः ‘स्वयम्' अन्येनानुपदिष्ट आत्मनैवेत्थं भणति ।। [भा.४२०५] उक्कोसगा व दुक्खं, दुवजिया केसितोऽहं मि विधेव । इति संछोभ तहियं, वदंति निद्दिट्टगेसुंपि। वृ-यानि वस्त्राणिमया युष्मदर्थं कारितानि तानि 'उत्कृष्टानि' बहुमूल्यानि ततः कथं परित्यज्यन्ते ?; 'दुःखं वा' महता प्रयासेन वा (व्या) यितानि अतः 'क्लेशितः' क्लेशं प्रापितोऽहं वृथैवामीभिः, युष्माकमनुपकरणात; अतो मदीयानि यूयं गृह्णीथ युष्मदीयानि च मम भवन्तु, 'इति' एवंतत्र निर्दिष्टेष्वपि' संयतनिमित्तं निर्दिश्य कृतेष्वेपि संछोभं कल्पनीयताकारणं वदन्ति तीर्थकरादयः, संयतनिर्दिष्टान्यपि कल्पन्त इति भावः ।। अत्र मतान्तरमुपन्यस्य दूषयत्राह[भा.४२०६] जह अत्तट्ठा कम्मं, परिमुत्तं कप्पते उ इतरेसिं। इय तेन परिग्गहियं, कप्पइ इयरं पि इयरेसिं॥ वृ-या अविशोधिकोटि 'संयतनिर्दिष्टा' साधून निर्दिश्य कृता सा संछोभे कृतेऽपि न कल्पते; एवं केचिदाचार्या ब्रूवते तत् तु न युज्यते । यस्मात् 'शैक्षस्य' अनुपस्थापितस्य 'अविशुद्धम्' अनेषणीयं वस्त्र-पात्रादि दीयते इति अत्रैव चतुर्थोद्देशके वक्ष्यति । तत्र शैक्षयोग्यमविशुद्धं साधुभिः परिगृहीतं भवति, अतो ज्ञायते-अविशोधिकोटिदोषदुष्टमपि वस्त्रादिकं संछोभे कृते कल्पते ॥ किञ्चान्यत्[भा.४२०७] जय अत्तट्ठा कम्मं, परिभुत्तं कप्पते उ इतरेसिं । इय तेन परिग्गहियं, कप्पइ इयरं पि इयरेसिं ।। | 191291 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy