________________
४४८
बृहत्कल्प-छेदसूत्रम् -२-३/९२ [भा.४१९९] तदसति पुव्वुत्ताणं, चउण्ह सीसति य तेसि वावारो।
हानी जा तिन्नि सयं, तदभावें गुरु उ सव्वं पि॥ वृ-तस्या अपि-सकलगच्छपूजाभमायाः सामग्यरा अभावे ये पूर्वमाचार्योपाध्याय-प्रवर्तिसङ्घाटकसाधुलक्षणाश्चत्वार उक्तास्तेषां पूजा करोति । 'तेषां च' आचार्यादीनां 'व्यापारः' अर्थकथनादिस्तस्य पुरतः 'शिष्यते' कथ्यते, यथा-आचार्योऽर्थं व्याख्यानयति, उपाध्यायः सूत्रं वाचयति, प्रवर्ती तपःसंयमादौ प्रवृत्तिं कारयति, सङ्घाटकसाधुर्भिक्षा-विचारभूम्यादौ गच्छता साहाय्यं विधत्ते, अत एतेषां पूजां विधेहीति । अथ नास्त्येतावती शक्तिस्ततो यथाक्रम हान्या प्रथममाचार्योपाध्याय-प्रवर्त्तिनाम्, तदभावेआचार्योपाध्याययोः, तथाप्यशक्तौ केवलस्यैवाचार्यस्य पूजां करोति । एवमप्यशक्तौ स्वयमात्मनो योग्यान् त्रीन् प्रत्यवतारान्, तदभवे द्वौ, द्वयोरभावे एकमपि प्रत्यवतारमादाय प्रव्रजति । अथ नास्ति तस्यैकोऽपि प्रत्यवतारस्ततः सर्वमपि पात्रनिर्योगादिकं तस्य गुरवः प्रयच्छन्ति ।
अथास्यविद्यमानविभवस्योद्रमकोटिदोषैर्विशोधिकोटि-दोष;अविशुद्धानिवस्त्रणिप्रयच्छतो ग्रहीतुं कल्पन्ते न वा ? इति चिन्तां चिकीर्षुराह[भा.४२००] अप्पणो कीतकडं वा, आहाकम्मं व घेत्तु आगमनं ।
संजोए चेव तधा, अनिदिढे मग्गणा होति ॥ वृ-सगृहस्थशैक्षआत्मनो योग्यं वस्त्र-पात्रादिक्रीतकृतंवाआधाकर्मवा गृहीत्वा गुरुणामन्तिके दीक्षाग्रहणायागमनं कुर्यात् ।अत्रक्रीतकृतग्रहणेन विशोधिकोटिदोषा गृहीताः, आधाकर्मग्रहणेन चाविशोधिकोटिदोषा गृहीताः ।अमीषांच दोषाणामनिर्दिष्ट उपलक्षणत्वानिर्दिष्टेच येसंयोगाःभङ्गकास्तेषां मार्गणा कर्तव्या भवतीति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवृणोति[भा.४२०१] कीयम्मि अनिद्दिष्टे, तेनोग्गहियम्मि सेसगा कप्पे।
निदिम्मि न कप्पति,अहव विसेसो इमो तत्थ ।। वृ-क्रीतकृतं द्विधा-निर्दिष्टम् अनिर्दिष्टं च । निर्दिष्टं नाम-वस्त्र-पात्रादिकंक्रीणान इत्थं निर्देशं करोति-अमूनि मम भविष्यन्ति अमूनि साधूनां दास्यामि । तद्विपरीतमनिर्दिष्टम् । एवमन्येष्वपि दोषेषुभावना कर्तव्या । तत्र यानि वस्त्रणितेनानिर्दिष्टानिकीतानि तेषांमध्ये यत् तस्याभिरुचितं तत्र वस्त्रजाते तेनावगृहीते सति शेषाणि साधूनां कल्पन्ते। निर्दिष्टेतु' साधूनामय यत् क्रीतं तत् किमपि न कल्पते । अथवा 'तत्र' निर्दिष्टेऽयुं विशेषोऽभिधीयते॥ [भा.४२०२] मज्झांतिगामि गिण्हह, अहगंतुन्झच्चए परिग्धिच्छं।
सेहे दिति व वत्यं, तदभावे वा विगिचंति॥। वृ-'मदीयानि' मया आत्मार्थं क्रीतानि वस्त्रणि यूयं गृहीथ, अहं तु 'युष्मदीयानि' युष्मदर्थ मयैव क्रीतानि वस्त्राणि परिग्रहीष्ये । एवं तेनोक्ते तान्यात्मार्थक्रीतानि कल्पन्ते । अथवा स ब्रूयात्-मया तावद् युष्मदर्थमेतानि क्रीतानि, इत ऊर्ध्वं यद् जानीथ तत् कुरुथ । ततः त निर्दिष्टं 'वस्त्र' वस्त्रप्रत्यवतारं 'शैक्षे' शैक्षस्यानुपस्थापितस्य प्रयच्छन्ति । अथ नास्ति शैक्षः, अस्ति वा परं किमहंसाधुर्नभवामियदेवमेतानिममदीयन्ते?' इति कृत्वा नेच्छतिततस्तानि “विगिचंति" परिष्ठापयन्ति ।। एवं परिष्ठाप्यमानेषु स शैक्षो ब्रूयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org