________________
उद्देशक : ३, मूलं-९२, [भा. ४१९४]
४४७ गच्छति । एवं दिवसे दिवसे करोति । तस्मिंश्च दिवसे स यक्षो नोपागमत् । द्वितीये च दिवसे कोऽपि सलिङ्गावधावी चौर्य कर्तुकामस्तस्मिन्नेव ग्रामे तस्या एव तरुण्या गृहे तथैव द्वारमूले प्रसुप्तः, यक्षश्च तद्दिवसमागतः । यस्मिन् दिवसे यक्षो नायातः ततो यो द्वितीयो दिवसस्तत्र • निशायामागतस्य यक्षस्य पार्थे पृच्छा कृता-कल्पे किं नागतोऽसि ? । यक्षः प्राह-अत्र कल्ये यतिरासीत् तेन कारणेन अहमत्र नायातः, अपि च साधुसम्बन्धिना तेजसैव तमुलाय गन्तुंन शक्यते । सा प्राह-किमेवं मृषा भाषसे ? अयमपि तावदन्यः साधुरिमूले सुप्तस्तिष्ठति अत एनमुल्लाङ्य कथमधागतोऽसि? इति । यक्षः प्राह-एष चारित्रं प्रति विपरिणतश्चौर्य कर्तुकामः, अतो यतिवेषेण चौरोऽयं मन्तव्यः यस्तव अद्य द्वारे वसतीति॥
तदेवमनेन दृष्टान्तेन प्रव्रज्यायामभिमुखः प्रव्रजित एवोच्यते। उक्तंचनैश्चयिकनयवक्तव्यतामङ्गीकृत्य भगवत्याम्-नेरईए नंमंते! नेरईएसु उववज्जइ? अनेरईए नेरईएसु उववज्जइ? गोयमा! नेरईए नेरईएसु उववजइ, नो अनेरईए नेरईएसु उववज्जइ । अथ रजोहरणादिपदानि व्याचष्टे[भा.४१९५] स्यहरणेण विमझो, गुच्छगगहणे जहन्नगहणंतु।
भवति पडिग्गहणे, गहणं उक्कोसउवधिस्स ॥ वृ. रजोहरणग्रहणेन विमध्यमोपधिर्ग्रहीतः, गोच्छकग्रहणेन जधन्योपधिग्रहणं भवति, प्रतिग्रहग्रहणेन चोत्कृष्टस्योपधेर्ग्रहणं मन्तव्यम् । [मा.१९६] पडिपुत्रा पडुकारा, कसिणग्गहणेण अप्पणो तिन्नि।
पुल्विं उवहितो पुन, जो पुव्वं दिक्खितो आसी। कृ-कुत्स्नवस्त्रग्रहणेनेदमुक्तं भवति-तेनप्रव्रजता आत्मनो योग्यास्त्रयः प्रत्यवताराः प्रतिपूर्णा ग्रहीतव्याः । पूर्वमुपस्थितः पुनः स उच्यते यः पूर्व दीक्षित आसीत् ॥
एष सूत्रार्थः । अथ नियुक्तिविस्तरः[मा.१९७] सोऊण कोइ धम्मं, उवसंतो परिणओ य पव्वजं ।
पुच्छति पूर्य आयरिय उवज्झाए, पवत्ति संघाडए चेव ।। वृ-इह कश्चित्तथारुपाणां स्थविराणामन्तिके धर्मं श्रुत्वा उपशान्तः प्रव्रज्यायांच परिणतः। ततःसआचार्यान् पृच्छति-आदिशतक्षमाश्रमणाः ! किंमया कर्तव्यम्? ।सूरयस्तस्य सारसम्भवं ज्ञात्वा ब्रुवते-"पूर्य" ति चैत्यानां विपुलां पूजां कुरु श्रमणसङ्कस्य च वस्त्रदिभि प्रतिलाभनं कुरु। एवमुक्ते स तथैव चैत्यानां श्रमणसवस्य च पूजां करोति । अथ श्रमणसझं न पूजयितुमीशस्तत आचार्यस्योपाध्यायस्य प्रवर्तिनः सबाटकसाधोश्च वस्त्रादिभिः पूजा विधातव्या ।।
इदमेव भावयति[भा.४१९८] नंतग-घत-गुल-गोरस, फासुग पडिलाभणं समणसंधे।
असति गणि-वायगाणं, तदसति सव्वस्स गच्छसि ।। -सप्रविव्रजिषुः श्रमणसास्य सकलस्यापि प्राशुकैः' शुद्धैर्वस्त्र-घृत-गुड-गोरसादिभिर्द्रव्यैः प्रतिलाभनांकरोति। अथनास्त्येतावत्सारंततोयेगणिनः-आचार्यायेवावाचकाः-उपाध्यायास्तेषां सर्वेषामपि करोति । अथ नास्त्येतावाती शक्तिस्ततो यस्मिन् गच्छे असौ प्रव्रजिष्यति तस्य सर्वस्यापि प्रतिलाभनां विद्यत्ते॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org