________________
૪૪૬
बृहत्कल्प-छेदसूत्रम् -२-३/९२
अथ विस्तरार्थोऽभिधीयते-आह-न तावदद्याप्ययं प्रव्रजितः ततः कथं निर्ग्रन्थो भवति? इति उच्यते[भा.४१९०] दवम्मिय भावम्मि य, पव्वइए एत्य होति चउभंगो।
दब्वेण लिंगसहितो, ओहावति जो उनीसंको ।। [भा.४१९१] पवजए अभिमुहो, परलिंगे कारणेन वा बितिओ।
ततितो उ उभयसहितो, उभओविजढे चरिम भंगो॥ - द्रव्ये च भावे च प्रव्रजित इत्यत्र चतुर्भङ्गी भवति । तद्यथा-द्रव्यतो निर्ग्रन्थो न भावतः १ भावतो निर्ग्रन्थो न द्रव्यतः २एको द्रव्यतोऽपि भावतोऽपि ३ अपरो न द्रव्यतो न भावतः ४। तत्र द्रव्यतो निर्ग्रन्थः स उच्यते यः 'लिङ्गसहितः' द्रव्यलिङ्गयुक्तो निशक्ःसन् ‘अवधावति' उत्प्रजतीत्यर्थः ।। यस्तु प्रव्रज्यायामभिमुखो न तावदद्यापिप्रव्रजति कारणेन वा यः साधुः परलिङ्गे वर्तते सः ‘द्वितीयः' द्वितीयभगवर्ती । यस्तु 'उभयविमुक्ते तु द्रव्य-भावलिङ्गरहिते गृहस्थादौ 'चरमः' चतुर्थो भङ्गो भवति॥
अत्राचार्यो देवस्य मानुष्या सह संवासलक्षणं दृष्टान्तं कर्तुकामः प्रथमतः सिद्धान्तं प्रज्ञापयति[भा.१९२] चउधा खलु संवासो, देवाऽसुर रक्खसे मनुस्से य ।
. अत्रोन्नकामणेण य, संजोगा सोलस हवंति॥ वृ. देवसंवासः असुरसंवासो राक्षससंवासो मनुजसंवासश्चेति संवासश्चतुर्धा । अत्र चान्योन्यकाम्यया षोडश संयोगा भवन्ति, तद्यथा-देवो देव्या साधू संवसति । देवो असुर्या सार्धम् २ देवो मनुष्या सार्धम् ३देवोराक्षस्या सार्धम् ४,असुरो देव्या समसंवसति५असुरोऽसुर्या ६ असुरो मनुष्या ७ असुरो राक्षस्या ८, राक्षसो देव्या ९ राक्षसोऽसुर्या १० राक्षसो मनुष्या ११ राक्षसो राक्षस्या १२, मनुष्यो देव्या १३ मनुष्योऽसुर्या १४ मनुष्यो राक्षस्या १५ मनुष्यो मनुष्या १६ चेति । अत्र देवशब्देन वैमानिको ज्योतिष्को वा, असुरशब्देन भवनवासी, राक्षसशब्देन तु सामान्यतो व्यन्तरः परिगृह्यते ॥अथमूनेव षोडश भङ्गान् चतुर्षु मङ्गेष्वतारयन्त्राह[भा.४१९३/9] अधवण देव-छवीणं, संवासे एत्य होति चउभंगो।
-“अहवण"त्ति प्रकारान्तरघोतकः । देव-च्छविमतोः संवासे चतुर्भङ्गी भवति-देवो देव्या साधू संवसति १ देवः छविमत्या सार्धम् २ छविमान् देव्या सार्धम्३छविमान्छविमत्या ४ अत्र देवशब्देन सामान्यतो भवनपत्यादिनिकायचतुष्टयाभ्यन्तरवर्ती गृह्यते, छविमांश्च मनुष्य उच्यते। अत एतेषु चतुर्यु भङ्गेषु पूर्वोक्ताः षोडशापि भङ्गा अन्तर्भूताः ।।
एवं सिद्धान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं ष्टान्तमाह[भा.४१९३/२] पब्बजाभिमुहंतर, गुज्झग उडमामिया वासो।। [मा.४१९४] वितियनिसाए पुच्छा, एत्थ जती आसितेन मिन आतो।
जतिवेसोऽयं चोरो, जो अज तुहं वसति दारे॥ . -“पव्वजा" इत्यादि । एकः कश्चित्तरुणः प्रव्रज्याभिमुखोगुरुणांपार्थे प्रस्थितः । अन्तरा चकस्मिंश्चिद् ग्रामे एकस्यावरतरुण्यागृहेवासार्थमुपगम्य द्वारमूल सुप्तः।साचतरुणी उद्भामिका' कुशीला । 'गुह्यकश्च' कश्चिद् यक्षः तया उद्भ्रामिकया सह रात्रौ वासं कृत्वा प्रभाते स्वस्थान...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org