________________
पीठिका- [मा. ३६८]
खल्वक्लेशषटस्वपि दिक्षु शुद्धम् ।। सम्प्रति दुर्विदग्धां पर्षदमाह[भा.३६९] किंचिम्मत्तग्गाही, पल्लवगाही य तुरियगाही य।
दुवियडगा उ एसा, भणिया परिसा भवे तिविहा॥ वृ-किञ्चिन्मात्रग्राहिणः पल्लवग्राहिणः त्वरितग्राहिणः । एवमेषादुर्विदग्धा पर्षत् 'त्रिविधा त्रिप्रकारा भणिता ।। तत्र किञ्चिन्मात्रग्राहिणीमाह[भा.३७०] नाऊण किंचि अन्नस्स जाणियब्वे न देति ओगासं ।
नयनिज्जितो विलज्जइ, इच्छइयजयं गलरवेण ।। वृ-ज्ञात्वा किञ्चिद् अन्यस्य ज्ञातव्ये नावकाशं ददाति, न च निर्जितोऽपि लज्जते, केवलं 'गलरवेण' महागलप्रमाणेनारटन् जयमिच्छति ।। पल्लवग्राहिणीमाह[भा.३७१] न य कत्थइ निम्मातो, न य पुच्छइ परिभवसस दोसेण ।
वत्थी व वायपुण्णो, फुटइ गामिल्लगवियड्डो॥ वृ-ग्रामेयकेषुविदग्धोग्रामेयकविदग्घोनच कुत्रचिन्निर्मातः, सर्वत्र पल्लवमात्रग्राहित्वात्। न च परं पृच्छति, 'परिभवो मे भविष्यति' इति परिभवस्य दोषेण । केवलं बस्तिरिव वातपूर्ण 'पण्डितोऽयम्' इति लोकप्रवादगर्वितः स्फुटति' स्फुटनिच तिष्ठति ॥ त्वरितग्राहिणीमाह[भा.३७२] दुरहियविजो पच्चंतनिवासो वावदूक कीकाको।
खलिकरण भोइपुरतो, लोगुत्तर पेढियागीते ।। वृ-एकः पुरुषो व्याकरणसूत्राणि किञ्चित् पठितानि कृत्वा प्रत्यन्तं ग्रामं गत्वा ब्रूते-अहं वैयाकरणः । तत्र स ग्रामेयकैराभीरैः परिगृहीतः । वृत्ति पुष्टा कृता । ततः सुखेन तत्र निवसति । अन्यदा तत्र वावदूकश्छात्रैः परिवृतः पुस्तभारेण समागतः । ततस्तैः प्रत्यन्तग्रामवासिभिस्तस्य शिष्याः पृष्टाः-क एष समागतः ? । तैरवादि-वैयाकरणः । ततस्ते प्रयन्तग्रामवासिनो ब्रुवतेअस्माकमप्यस्ति वैयाकरणः, तेन सह शब्दगोष्ठी भवतु। तैः प्रतिश्रुतम्।जात एकत्र मेलापकः । ततो दुरधीतविद्येनोक्तम्-काग इथइ खथं भण्यते?।वैयाकरणेनोक्तम्-काक इति । (एवमुक्ते स मौनमध्यतिष्ठत् ।) दुरधीतविद्येनोक्तम्-अन्योऽपि लोकः काकमेव भणति, को विशेषो व्याकरणस्य ? अहं भणामि ‘क्रीकाकः' । ततो ग्रामेयकैर्हसितम् उत्कृष्टिश्च कृता 'अस्माकं पण्डितेनैष पराजितः' इति । पश्चात् सवैयाकरणः प्रद्वेषमापन्नो नगरं गत्वा यस्य भोजिकस्य स ग्रामस्तेन कर्षयित्वा तस्य पुरतः लीकृत्य ग्रामान्निष्काशितः । एष दृष्टान्तः ।
एवं लोकोत्तरेऽपि कोऽपि कस्याप्याचार्यस्य शिष्यः किञ्चित् पीठिकामात्रं शिक्षयित्वा एकाकी प्रत्यन्तनगरं गत्वा तद्गतानन्यानगीतार्थान् द्रावयति, अकरणीयान्यपि च करोति, अप्रायश्चित्तेऽपि च प्रायश्चित्तं ददाति, अन्यं पूजा-सत्कार-गौरवहानिभयतो न च पृच्छति । पश्चादन्ये गीतार्थास्तत्रागतास्तै वितः प्रायश्चित्तं च तस्य दत्तं दिक् च तस्यापहृता॥
___ गाथाक्षरयोजना त्वियम्-दुरधीतविद्यः कोऽपि प्रत्यन्तनिवासः । तत्रैको 'वावदूकः' महाविद्वान् वैयाकरणः समागतः। तस्य तेन विवादे ‘क्रीकारः कृतः' उपहासपूर्वकमुत्त ष्टि कृता। ततः सवैयाकरणोवावदूको नगरंगत्वा भोजिकपुरतस्तस्य खलीकरणमकार्षीत् । एवं लोकोत्तरेऽपि 'पीठिकागीते' पीठिकामात्रेण गीतार्थकर्त्तव्यं या करोति सैषा दुर्विदग्धा पर्षत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org