________________
उद्देशक ः ३, मूलं-९१, [भा. ४१६३]
४४१ आचार्यजानीमः, इत्यपि भणिताः संयत्यः गणिनः' सूरेः कथयन्ति, नपुनः तद् वस्त्रप्रतीच्छन्ति।।
सूरिभिश्च संयतीमुखाद् वस्त्रवृत्तान्तं श्रुत्वा इत्थं वक्तव्यम्[भा.४१६४] कतरोभे नत्थुवधी, जो दिज्जउ भणह मा विसूरित्या।
पुब्बुप्पनो दिज्जति, तस्सऽसतीए इमा जयणा ।। वृ-'भणत प्रतिपादयतवर्षाकल्पा-ऽन्तरकल्पादीनां मध्यात्कतरः " " भवतीनांनास्त्युपधि यः साम्प्रतं दीयताम्, मा यूयमुपधिना विना 'विसूरयथ' खेदमुबहथ, इत्युक्ते यस्योपधेरभावस्तं निवेदयन्ति । स यदि पूर्वोत्पन्नो वर्तते ततो दीयते । अथ पूर्वोत्पन्नो नास्ति ततस्तस्याभावे इयं यतना। [भा.४१६५] नाऊण या परीत्तं, वावारे तत्थ लद्धिसंपन्ने ।
गंधद्दे परिभुत्ते, कप्पकते दान गहणं वा ।। वृ-“परीत्तं" स्तोकम्, अभावोपलक्षणं चेदम्, ततोऽयमर्थ-परीत्तं नाम न सन्ति संयतीनां वस्त्राणि इति ज्ञात्वा ये तत्र लब्धिसम्पन्नाः साधवस्तान व्यापारयेत्, यथा-आर्या ! संयतीनां प्रायोभ्याणिवस्त्राणि गवेषयत । ततस्तेवस्त्राणि गृहीत्वा गुरुणांसमर्पयन्ति, तानिच गन्धाढ्यानि परिभुक्तानि वा भवेयुः ततः कल्पे कृते सति दानं ग्रहणं वा कर्तव्यम् । किमुक्तं भवति ?-तानि वस्त्राणिप्रक्षाल्य सप्तदिवसानि स्थापयित्नायदिनास्ति कोऽपिविकारस्ततो गणधरेन प्रवर्तिन्या दातव्यानि । प्रवर्तिनीहस्ताच्च संयतीभिर्ग्रहीतव्यानि इति सङ्ग्रहगाथासमासार्थः॥
साम्प्रतमेनामेव विवृणोति[भा.४१६६] गुरुस्स आणाए गवेसिऊणं, वावारिता ते अहछंदिया वा।
दुधापमाणेण जहोदियाई, गुरुण पाएसु निवेदयंति॥ वृ-ये 'व्यापारिताः' गुरुभिर्वस्त्रग्रहणाय प्रवर्तिताः, ये वा 'यथाच्छन्दिकाः' अव्यापारिता एव गुरुणां पुरतो भणन्ति-वयं वस्त्राणि गवेषयिष्यामः, आभिग्रहिका इति भावः; ते द्वयेऽपि गुरोराज्ञया वस्त्राणि 'द्विधाप्रमाणेन' गणनाप्रमाणेन प्रमाणप्रमाणेन च यथा भगद्भिस्तीर्थकरैः 'उदितानि' भणितानितथा गवेषयित्वागुरुणां पादयोः' पुरतस्तानि निवेदयन्ति' निक्षिपन्तीत्यर्थः।।
ततश्च[भा.४१६७] गंधड्ड अपरिभुत्ते, विधोबिउं देति किमुअ पडिपक्खे।
गणिणीए निवेदेज्जा, चतुगुरु सय दान अट्ठाणे॥ वृ-यानि गन्धाढ्यानि तानि यद्यपि अपरिभुक्तानि तथापि 'धावित्वा' प्रक्षाल्य संयतीनां ददाति 'किमुत' किं पुनः 'पतिपक्षान्' परिभुक्तान् ? इत्यर्थः, तानि सुतरां प्रक्षालनीयानीति भावः । उपलक्षणमिदम्, तेन यद्यपि तानि न गन्धाढ्यानि तथापि धावनीयान्येव, धावित्वा च तानि सप्त दिवसानि स्थापयित्वास्थविरःप्रावरणं कार्यते। यदि नास्ति कोऽप्यभियोगविकारस्ततो गणधरः ‘गणिन्याः' प्रवर्तिन्यास्तानि 'निवेदयेद्' अर्पयेदित्यर्थः । सा च संयतीनां ददाति।अथ गणधरः स्वयं तासां ददाति ततश्चतुर्गुरु, अस्थाने च शेषसंयतीभि स्थाप्येत । शुद्धभावेनापि हि यदि काचिदार्यिका विशेष्य आलप्यते तथापि काचिदपरा संयती तत्र विरुपकाभिप्रायतया शङ्कां करोति, किं पुनः स्वयं वस्त्रप्रदाने ? ॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org