________________
उद्देशक : ३, मूलं- ९०, [भा. ४१४२ ]
४३७
बितियपदे असतीए, उवस्सए वा अहव जुन्ना ||
I
- यदि तया प्रतिसेव्यमानया स्वादितं ततो मूलम् । वाशब्द उत्तरापेक्षया विकल्पार्थः । "जाव थण "त्ति पश्चाद् व्याख्यास्यते । गर्भमाहूतं दृष्ट्वा स्वादयति च्छेदः । अपत्यं जातं दृष्ट्वा ‘सहायकं मे भविष्यति' इति स्वादयन्त्याः षड्गुरवः । यया तु न स्वादितं तस्याः परप्रत्ययनिमित्तं यत् किमपि यथालघु प्रायश्चित्तं दातुं युज्यते तद् दातव्यम् । "जाव थण "त्ति यावत् तस्या अपत्यं स्तन्यपानोपजीवि भवति तावत् तपोर्हं प्रायश्चिततं न दातव्यम् । द्वितीयपदे अवग्रहानन्तकस्याभावे उपाश्रये वा तिष्ठन्ती अथवा 'जीर्णा' स्थविरा सा संयती अतोऽवग्रहानन्तकं न गृह्णात्यपि ॥ अथास्या एव पूर्वार्धं व्याख्याति
[भा. ४१४३ ]
सेविअंते अनुमए, मूलं छेओ तु डिंडिमं दिस्स । होहिति सहातगं मे, जातं दङ्कण छग्गुरुगा ॥
वृ- सेव्यमानया यद्यनुमतं ततो मूलम् । अथ 'डिण्डिमं' गर्भं दृष्ट्वा हर्षमुद्वहति छेदः । पुत्रभाण्डं दृष्ट्वा 'सहायकं मे भविष्यति' इत्यनुमन्यते षड्गुरवः ॥
[भा. ४१४४]
तेन परं चउगुरुगा, छम्मासा जा न ताव पूरिति । जा तु तवारिह सोही, अणवत्थणिते न तं देती ।
वृ- 'ततः परं' जन्मानन्तरं यावत् षण्मासा न पूर्यन्ते तावद् यत्र यत्र स्वादयति तत्र तत्र चतुर्गुरवः । याच तस्याः तपोर्हा शोधिरुक्ता ताम् 'अनपस्तनिते' स्तन्यपानादनुपरते अपत्यभाण्डे न ददति, मा स्तन्यं न भविष्यतीति कृत्वा ।।
[ भा. ४१४५ ]
हुने मे आहिते य सातिज्जियं जति न तीए । परपच्चया लहुसगं, तहा वि से दिंति पच्छित्तं ॥
वृ- मैथुने प्रतिसेव्यमाने गर्भे च आहूते यद्यपि तया न स्वादितं तथापि 'परप्रत्ययार्थ' मा भूदगीतार्थानामप्रत्यय इत्यर्थः यथालघुकं प्रायश्चित्तं तस्याः सूरयः प्रयच्छन्ति ।।
"
अथ यस्तस्याः खिंसां करोति तस्य प्रायश्चित्तमाह
[ भा. ४१४६ ] खिसाए होंति गुरुगा, लज्जा निच्छक्कतो य गमनादी । दप्पकते वाऽऽउट्टे, जति खिसति तत्थवि तहेव ||
वृ- यस्तस्याः 'खिंसां' ' विध्वस्तशीलत्वाद् मलिना इयम्' इत्येवं करोति तस्य संयतस्य संयत्या वा चतुर्गुरुकाः प्रायश्चित्तम् । सा च खिंसिता सती लज्जया प्रतिगमनादीनि कुर्यात्, निच्छक्का वानिर्लज्जा वा भवेत्, तत एव सर्वजनप्रकटमात्मानं प्रतिसेवयेत् । अथ दर्पतस्तया मैथुनं प्रतिसेवितं परंपश्चाद् आवृत्ता-आलोचना- प्रायश्चित्तप्रतिपत्त्यादिना प्रतिनिवृत्ता तामपि यः खिंसति तस्यापि तथैव चतुर्गुरु ॥ किं कारणम् ? इति चेद् अत आह
[ मा. ४१४७] उम्मग्गेन वि गंतुं, न होति किं सोतवाहिणी सलिला । काण फुंफुगा विय, विलीयते हसहसेऊणं ॥
वृ- उन्मार्गेणापि गत्वा ‘सलिला' नदी पश्चात् किं 'श्रोतोवाहिनी' मार्गगामिनी न भवति ? भवत्येवेति भावः । 'फुम्फुका' करीषाग्नि सोऽपि च “हसहसेऊणं” ति जाज्वलित्वा भृशमुद्दीप्तो भूत्वेत्यर्थः कालेन गच्छता 'विलीयते' विलयं याति । उपनययोजना सुगमा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org