SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ ४३६ बृहत्कल्प-छेदसूत्रम् -२-३/९० पृ-'हुँहुं विध्वस्तशीलेयम्' इत्येवमस्याः 'अवर्णम्' अवज्ञावामा कार्यु, किंन श्रुतं भवद्भिः केशि-सत्यकिनोर्जन्म? यथा-तौ आर्यिकाभ्यां पुरुषसंवासमनन्तरेणापि कथञ्चिदुपात्तबीजपुद्गलाभ्यांप्रसुषुवाते, नच तयोः' आर्यिकयोव्रतभङ्गः सञ्जातः, विशुद्धपरिणामत्वात्।अनयोः कथानके यथाक्रमं पञ्चकल्पा-ऽऽवश्यकटीकाभ्यामवसातव्ये॥ [भा.४१३८] अवि यहुइमेहि पंचहि, ठाणेहिं थी असंवसंती वि। पुरिसेन लभति गब्मं, लोएण विगाइयं एयं ।। वृ-अपि चेत्यभ्युच्चये, 'हुः' निश्चितमेतत्-एतैः पञ्चभि स्थानः स्त्री पुरुषेण सममसंवसन्त्यपि गर्भ लभते । न केवलमसमाभिरेवैतदुच्यते किन्तु लोकेनापि 'गीत' संशब्दितमेतत् ॥ तान्येवोपदर्शयति[भा.४१३९] दुवियड-दुन्निसन्ना, सयं परो वा सि पोग्गले छुभति। वत्ये वा संसट्टे, दगआयमनेन वा पविसे ॥ वृ-विवृता-अनावृता, सा चोत्तरीयापेक्षयाऽपि स्याद् अतो दुःशब्देन विशेष्यते-दुष्ठु विवृता दुर्विवृता-परिधानवजितेत्यर्थः, एवंदुर्विवृता सतीदुर्निषन्ना-दुष्छु-विरूपतयोपविष्टादुर्विवृत-दुनिषन्ना सा शुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसनस्थान् सङ्गृह्णीयात् १, स्वयं वा पुत्रार्थितया शीलरक्षकतया च शुक्रपुद्गलान् योनावनुप्रवेशयेत् २, 'परो वा' श्वश्रूप्रभृतिकः पुत्रार्थमेव "से" तस्या योनौ प्रक्षिपेत् ३, वस्त्रं वा शुक्रपुद्गलसंसृष्टम् उपलक्षणत्वात् तथाविधमन्यदपि केशिमातुः केशवत् कण्डूयनार्थ रक्तनिरोधार्थं वा तया प्रयुक्तं तद अनुप्रविशेत्, अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत् ४, दकं-पानीयं तेन वा तस्या आचमन्त्याः पूर्वपतिताउदकमध्यवर्तिनःशुक्रपुद्गला अनुप्रविशेयुः५एवंपुरुषसंवासमन्तरेणापि गर्भसम्भवे भवन्तो नास्या अवज्ञां कर्तुमर्हन्ति । एवं प्रज्ञाप्य तेषां श्राद्धानां गृहे तां स्थापयन्ति॥ गता ज्ञातविषया यतना । अथाज्ञातविषयां तामाह[भा.४१४०] अविदिय जन गब्मम्मि य, सन्नीमादीसु तत्थ वऽन्नत्था । लाडेति फासुएणं, लिंगविवेगो य जा पिबति ॥ दृ-जनेनाविदितो यो गर्भस्तत्र ये माता-पितृसमानाः संज्ञिनः आदिशब्दाद् यथाभद्रका वा तेषां गृहेषु तत्र वा अन्यत्रवा ग्रामे स्थापयन्ति । ते च संज्ञिप्रभृतयस्ता प्राशुकेन प्रत्यवतारेण 'लाढयन्ति' यापयन्तीत्यर्थः । यावच्चापत्यभाण्डं स्तन्यंपिबति तावत् तया लिङ्गविवेकः कर्तव्यः। [भा.४१४१] एएसिं असतीए, सन्नायग-नालबद्धकिढ फासुं। अन्नो वि जो परिणतो, स सिद्धवेसेतरीऽगारी॥ वृ- 'एतेषां' संज्ञिप्रभृतीनामभावे ये तस्याः संयत्याः संज्ञातकास्तेषां गृहेषु स्थाप्यते । संज्ञातकगृहाणाम् अभावे यः संयतो नालबद्धः सोऽपि यदि किढः-वृद्धस्तदाऽसौ श्राद्धवेषं कार्यते, इतराऽपिगृहिलिङ्गं करोति, ततस्तौ प्राशुकाहारेण यापयन्तौ तिष्ठतः । नालबद्धस्याभावे अन्योऽपि यो वयसा परिणतः स सिद्धपुत्रवेषं कार्यते, इतरा अगारीवेषं करोति ।। अत्रेयं प्रायश्चित्तमार्गणा[भा.४१४२] मूलं वा जाव थणा, छेदो छग्गुरुगजं चऽधालहुअं। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy