________________
बृहत्कल्प-छेदसूत्रम् - २-३/९० पाषण्डिस्त्रीजनस्य घर्षणा भवति, वर्त्तमाननिर्देशस्तत्कालापेक्षया । तदानीं च प्रवचनस्य 'उद्भावना' प्रभावना समजनि । ये च पापकर्माणः संयतीरभिद्रवितुमिच्छन्ति तेषां निवारणा जाता, 'नशक्यन्ते अमूरेवंविधेन वेषेण छलयितुम्' इति कृत्वा । कथं पुनरेतत् संवृत्तम् ? इत्याह- "उज्झसु चीरे" इत्यादि, विधिनिर्गता संयती मिण्ठेनाभिहिता- 'उज्झ' परित्यज चीवराणि । साऽप्येवमभिहिता 'नृपपथे' राजमार्गे यानि यथा बहिरुपकरणानि तानि तथा मुञ्चति । एवं बहुषु वस्त्रेषु मुक्तेष्वपि यदा सा नटीवत् 'कूर्पासकादिभिः' कञ्चुकादिभिर्वस्त्रैः 'उच्छूरिता' सुप्रावृता दृश्यते तदा लोकेन स मिठो धिग्धिक तश्च हाहाकृतश्च तथा 'तर्जितः' गाढं निर्मितिः । ततश्च 'ओवलोकनस्थितेन' गवाक्षोपविष्टेन राजसिंहेनासौ निवारितः । 'सर्वज्ञदृष्टश्चायं धर्म' इति कृत्वा साधूनां समीपे भगिनी प्रव्रज्याग्रहणार्थं विसर्जितेति । उक्तो मरुण्डजडुष्टान्तः । अथ नर्तकी-लजिकाष्टान्तद्वयमाह[ भा. ४१२७] पाए वि उक्खिवंती, न लज्जती नट्टिया सुणेवत्था । उच्छूरिया व रंगम्मि लंखिया उप्पयंती वि ॥
वृ-यथा नर्त्तकी सुनेपथ्या सती पादावप्युत्क्षिपन्ती न लज्जते, लतिका वा रङ्गभूमौ 'उत्पतन्त्यपि ' करणशतान्यपि कुर्वती यथा 'उच्छूरिता' सुप्रावृता सती न लज्जते, एवं संयत्यपि सुप्रावृता न लञ्जत इत्युपनयः ॥ अथ कदलीस्तम्मध्ष्टान्तमाह
[ भा. ४१२८ ]
४३४
कयलीखंभो व जहा, उब्वेल्लेउं सुदुक्करं होति । इय अज्जाउवसग्गे, सीलस्स विराधना दुक्खं ॥
वृ- कदलीस्तम्भ वा यथा पटलबहलत्वाद् 'उद्वेल्लयितुम्' उद्वेष्टयितुं सुदुष्करो भवति, एवमार्थिकाऽपि बहूपकरणप्रावृता नोद्वेष्टयितुं शक्या । “इय" एवं योधादिभिर्द्दष्टान्तैर्विधिनिर्गताया आर्यायाः केनचिदुपसर्गे क्रियमाणेऽपि शीलस्य विराधना 'दुःखं' दुष्करा मन्तव्या ॥ किच[भा.४१२९] एक्का मुक्का एक्का य धरिसिया निवेदन जतणाय होति कायव्वा । बाहाड न जहितव्वा, सेतरादी सयं वा वि ।।
वृ- 'एका' काचिद् विधिनिर्गता गृहीताऽपि मुक्ता, 'एका च' अपरा घर्षिता, ततः 'यतनया' यथा शेषसंयत-संयतीजनो न जानाति तथा गुरूणां निवेदना कर्त्तव्या । अथ सा बाहाड़िता ततो न परित्यक्तव्या किन्तु शय्यातरादिना स्वयं वा तस्या वर्त्तापनं विधेयमिति नियुक्तिगाथासमासार्थः ॥ अथैनामेव विवृणोति
[ मा. ४१३० ] विहिनिग्गता उ एक्का, गोयरियाए गहिता गिहत्येहिं । संवरियपभावेण य, फिडिया अविराहियचरिता ॥
वृ- 'एका' काचिद् विधिनिर्गता गोचरच्यां पर्ययन्ती गृहस्थैर्गृहीता, परं 'संवृतप्रभावेन' सुप्रावरणमाहाल्येन सा अविराधितचारित्रा स्फिटिता ॥
[भा. ४१३१]
लोण वारितो वा, दवण सयं व तं सुणेवत्थं । सुद्दि तुवसंतो, सविम्हओ खामयति पच्छा ।।
वृ-येन सा धर्षितुमारब्धा स लोकेन वा धिक्कारपुरस्सरं वारितः, स्वयं वा 'तां' संयती 'सुनेपथ्यां' सुप्रावृतां दृष्ट्वा 'सुध्ष्टममीषां धर्मरहस्यम्' इति कृत्वोपशान्तः सन् सविस्मयः पश्चात् तां संयतीं
क्षामयति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org