________________
बृहत्कल्प-छेदसूत्रम् -२-३/९०
४३२
सद्यः शमं प्राप्तः ॥ अथाविधिनिर्गमने दोषानाह
[ भा. ४११६] तत्थेव य पडिबंधो, पडिगमनादीनि जानि ठाणानि । डिंडी य बंभचेरे, विधिनिग्गमणे पुनो वोच्छं ।।
वृ- येन सा अविधिनिर्गता धर्षिता तत्रैव 'प्रतिबन्धः' अनुरागो भवेत् । तदनुरक्ता च सती प्रतिगमनादीनि यानि स्थानानि करोति तन्निष्पन्नं प्रवर्त्तिन्याः प्रायश्चित्तम् । ऋतुसमयगृहीतायाश्च कस्याश्चिद् डिण्डिमबन्धो भवेत्, ततश्च महती प्रवचनापभ्राजना । ब्रह्मचर्यविराधना च परिस्फुटैव तस्याः सञ्जायते । विधिनिर्गमने च 'पुनः ' भूयोऽपि गुणातन् वक्ष्ये ||
एतच्च सांन्यासिकीकृत्य प्रथममविधिनिर्गमने दोषशेषमाह
[भा. ४११७] न केवलं जा उ विहम्मिआ सती, सवञ्चतामेति मधूमुहे जने । उवेति अन्ना विउ वचपत्ततं, अपाउता जा अनियंसिया य ॥
वृ- न केवलं यैव 'सती' साध्वी 'विधर्मिता' शीलधर्मात् च्याविता सैव 'मधुमुखे जने' दुर्जनलोके 'सवाच्यतां' सकलङ्कतामुपगच्छति, 'अन्याऽपि एतव्यरिक्ताऽपि 'वाच्यपात्रतां' वचनीययोग्यतामुपैति या 'अप्रावृता' औपकक्षिक्याधुपरितनोपकरणरहिता 'अनिवसिताच' अवग्रहानन्तकाद्यधस्तोपकरणवर्जिता भवति ।। किञ्च
[ भा. ४११८] न भूसणं भूसयते सरीरं, विभूसणं सील हिरी य इथिए । गिरा हि संखारजुया वि संसती, अपेसला होइ असाहुवादिनी ।।
वृ- 'भूषणं' हारादिकं पिनह्यमानं शरीरं न भूषयति, किन्तु 'शीलं ' ब्रह्मचर्यं 'हीच' लज्जा एतदेव द्वयं स्त्रया विभूषणम् । अमुमेवार्थं प्रतिवस्तूपमया द्रढयति गीः ' वाणी सा संस्कारयुक्ताऽपि 'संसदि ' सभायां यदि 'असाधुवादिनी' जकार- मकाराद्यसभ्यप्रलापिनी तदा 'अपेशला' शिष्टजन जुगुप्सनीयतया न शोभना भवति; एवमियमपि स्त्री हारादिविभूषिताऽपि यदि शीललज्जाविकला तदा शिष्टजनस्य जुगुप्सनीया भवति, अतः स्त्रियाः शीलं लज्जा च विभूषणम् । एतच्च शील- लज्जाद्वयं संयत्या विधिप्रावरणे भवति ।। अतस्तदेवाभिधित्सुराह
[भा. ४११९] पट्टऽहोरुय चलणी, अंतो तह बाहिरा नियंसणिया । संघाडि खुञ्जकरणी, अनागते चेव सतिकाले ।।
वृ- पट्टकोऽर्धोरुकश्चलनिका अन्तर्निवसनी बहिर्निवसनी सङ्घाटिका कुब्जकरणी उपलक्षणत्वादवग्रहानन्तकं कञ्चुक औपकक्षिकी वैकक्षिकी चानागत एव 'सत्काले' भिक्षासमये ६ढतरमेतान्युपकरणानि साध्व्या प्रावरणीयानि ।। इदमेव बिभावयिषुराह
[ भा. ४१२०] उग्गहणमादिएहिं, अज्जाओ अतुरियाउ भिक्खस्स । जोहो व्व लंखिया वा, अगिण्हणे गुरुग आणादी ॥
वृ- अवग्रहानन्तकादिभिरुपकरणैः 'आर्या' संयत्यो भिक्षाऽत्वरिता आत्मानं भावयन्ति । क इव ? इत्याह-योध इव लतिकेव वा । यथा योधः सङ्ग्रामशिरसि । प्रवेष्टुमनाः सन्नाहं पिनह्यति, यथा च लतिका रङ्गभुवं प्रविशन्ती पूर्वं चलनिकादिना गुडापिनद्धमिवात्मानं करोति, एवमार्याऽप्यवग्रहानन्तकादिसुप्रावृता निर्गच्छति । अथैतान्युपकरणानि न गृह्णाति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः ॥ अथ विशेषज्ञापनार्थमिदमाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org