________________
उद्देशक : ३, मूलं ९०, [भा. ४११० ]
[भा. ४११०] अंतो घरस्सेव जतं करेती, जहा नडी रंगमुवेउकामा । लज्जापहीणा अह सा जणोघं, संपप्प ते ते पकरेति हावे ॥
वृ-यथा 'नटी' रङ्गनर्तकी 'रङ्गं' नाट्यस्थानमुपैतुकामा गृहस्यैव 'अन्तः' मध्ये 'जय' लज्जाया अभिभवं करोति, 'अथ' अनन्तरं सा लग्नाप्रहीणा सती 'जनीधं' जनसमुदायं सम्प्राप्य 'तान् तान् भावान् अङ्गविक्षेपादीन् प्रकरोति; एवं संयत्यपि भिक्षां गन्तुमनाः प्रतिश्रयमध्य एवावृग्रहानन्तकादिभिरुपकरमैरात्मानं सुप्रावृतं करोति, ततो भिक्षां पर्यटन्ती तरुणादिष्वलोकमानेष्वपि सुखेनैव लज्जां पराजयते ॥ अथ द्वितीयपदमाह
[ मा. ४१११] असईय नंतगस्स उ, पणवशुत्तिन्निगा व न उ गिव्हे । निग्गमनं पुन दुविहं, विधि अविही तत्यिमा अविही ।।
४३१
वृ- अवग्रहानन्तकस्याभावे पञ्चपञ्चाशद्वर्षेभ्य उत्तीर्णा वा संयती प्रम्लानयोनिकतया न गृह्णीयादपि । इह च भिक्षाया निर्गमनं द्विविधम्-विधिना अविधिना च । तत्र तावदयमविधिः || [मा. ४११२] उग्गहमादीहि विना, दुनियत्था वा वि उक्खुलणियत्था । एक्कादुवे य अविही, चउगुरु आणा य अणवत्था ।।
वृ- अवग्रहानन्तकादिभिर्विना भिक्षां निर्गच्छति, दुर्निवसिता वा उखुलनिवसिता वा भिक्षां पर्यटति, एका वा द्वे वा भिक्षायां गच्छतः, एष सर्वोऽप्यविधिरुच्यते । अत्र च चतुर्गुरुकाः, आज्ञा च भगवतां विराधिता स्यात्, 'अनवस्थाच' एकामविधिना निर्गच्छन्तीं दृष्ट्वा अन्याऽपि निर्गच्छतीत्येवंलक्षणा भवति ॥ तथा
[मा. ४११३ ] मिच्छत्त पवडियाए, वाएण व उद्धुयम्मि पाउरणे । गोयरगया व गहिया, धरिसणदोसे इमें लहति ॥
वृ- अवग्रहानन्तकादिभिर्विना भिक्षां गतासहसा मूर्च्छादिना प्रपतेत् । ततः प्रपतिताया वातेन वा प्रावरणे समुद्धूतेऽप्रावृतत्वं दृष्ट्वा लोको मिथ्यात्वं गच्छेत्, यथा-नास्त्यमीषाममुष्य दोषस्य प्रतिषेधः, कथमन्यथेयमित्थं निर्गच्छेत् ? । गोचरगता वा काचिदविधिनिर्गता केनचिद् विटेन गृहीता घर्षणदोषान् 'अमून्' वक्ष्यमाणान् लभते । ते चोपरि दर्शयिष्यन्ते ।।
अथ विधिनिर्गमे गुणमाह
[मा. ४११४] अड्डोरुगा-दीहणियासणादी, सारक्खिया होति पदे वि जाव । तिन्हं पि बोलेण जनोऽभिजातो, एकंबरा खिप्पमुवेति नासं ।। वृ-याऽर्धोरुक - दीर्घनिवसन्यादिभि सुप्रावृता निर्गता सा केनचिद् घर्षितुमारब्धाऽपि पदावपि यावत् संरक्षिता भवति, तिसृणां च संयतीनां बोलेन 'अभिजातः' शिष्टो जनो भूयान् मिलतीति शेषः । या पुनरेकाम्बरा निर्गच्छति सा 'क्षिप्रं' शीघ्रं 'विनाशं संयमपरिभ्रंशमुपैति ॥
[ भा. ४११५] उव्वेल्लिए गुज्झमपस्सतो से, हाहक्कितस्सेव महाजनेनं । घिद्धि त्ति ओयुक्ति तालियस्सा, पत्तो समं रन्नदवो व वेदो ।।
वृ- विधिनिर्गतायाः केनचित् प्रत्यनीकेन 'उद्वेल्लिते' उत्सारितेऽपि बाह्योपकरणे यावदसौ गुह्यं न पश्यति तावद् महाजनेन हाहाकृतो धिगधिगिति भणनपूर्वकं च ओथुक्कितः-गाढं जुगुप्सितस्ताडितश्चासी, ततस्तस्यैवंविधां विडम्बनां प्रापितस्य 'वेद:' मोहोदयोऽरण्यदव इव
For Private & Personal Use Only
www.jainelibrary.org
. Jain Education International
1