________________
उद्देशकः ३, मूलं-८८, [भा. ४०४६]
४१९ वृ-एष एव क्रमो नियमात् ‘स्थूलेष्वपि' चणकादिबीजेषु मन्तव्यः । नवरं द्वितीयपर्वाण्यादी कृत्वाऽत्रप्रायश्चित्तक्रमः प्रारभ्यते, तद्यथा-द्वितीयपर्वमात्रेषुबादरवीजेषुपञ्चकम्, अङ्गुलिमूलमात्रेषु दशकम्, आयूरेषामात्रेषु पञ्चदशकम्, अङ्गुष्ठमूलमात्रेषु विंशति, प्रसृतिप्रमाणेषु भिन्नमासः, अञ्जिलिमात्रेषुमासलघु, असलीचतुष्कपरिमाणेषुचतुर्लघु, एतत् प्रत्येकबीजविषयं भणितम् । अनन्तबीजेषु सूक्ष्म-स्थूरेषु यथाक्रममेतान्येव प्रायश्चित्तानि गुरुकाणि कर्तव्यानि ।। [भा.४०४७] निकारणम्भि एए, पच्छित्ता वनिया उ बीएसु।
नायव्वा अनुपुब्बी, एसेव उ कारणे जयणा ।। वृ-एतानिप्रायश्चित्तानि निष्कारणे 'बीजेषु' बीजयुक्तेपात्रके गृह्यमाणे वर्णितानि। 'कारणे तु' पात्रकस्यासत्तालक्षणे 'आनुपूर्व्या प्रथमपर्वादिरूपया 'एषैव पञ्चकादिका यतना कर्तव्या।। अथ यथाकृते प्रथमपर्वप्रमाणानि बीजान्यल्पपरिकर्मकंच शुद्धंप्राप्यतेऽनयोः कतरद्ग्रहीतव्यम्? उच्यते-यथाकृतं ग्राहंय नाल्पपरिकर्म । एवं द्वितीयपर्वादिष्वपि वक्तव्यम्, यावद् बीजैराकण्ठमृतमपि यथाकृतं ग्राह्यम् । तथा चाह[भा.४०४८] बोसटुं पिहु कप्पइ, बीयाईणं अधाकडं पायं।
नय अप्प-सपरिकम्मा, तहेव अपं सपरिकम्मा ।। वृ. आगन्तुकानां बीजादीनां 'वोसट्टमपि' आकण्टमृतमपि यथाकृतं पात्रं कल्पते न चाल्पपरिकर्म-सपरिकर्मणी शुद्ध अपि । तथैव' एवमेवाल्पपरिकर्भकमागन्तुकवीजानां भृतमपि कल्पते, न च सपरिकर्मकं शुद्धमपि ।। अत्रैवैदम्पर्यमाह[मा.४०४९] थूला वा सुहुमा वा, अवहंते वा असंथरंतम्मि।
आगंतुअ संकामिय, अप्पबहु असंथरंतम्मि ।। वृ- यथाकृते स्थूलानि वा' चणकादीनि बीजानि भवन्तु 'सूक्ष्माणि वा' सर्षपादीनि, यदि तस्य प्राक्तनं भाजनं नवरत्वादवहमानकम्, तेन वा भाजनेन न संस्तरति, सर्वथा वा माजनं तस्यन नास्ति, एवमसंस्तरतोऽल्पबुत्वं तोलयित्वा बहुगुणकरमितिकृत्वा यथाकृतमागन्तुकबीजानां भृतमपि बीजानि यतनयाऽन्यत्र सङ्क्रमय्य ग्रहीतुं कल्पते॥
गतंजघन्ययतनाद्वारम् । अथ “चोयग असई असिव" ति द्वारद्वयमाह- . [भा.४०५०] थूल सुहमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि। .
जंकप्पइ ति मणिअं, न जुजई पुव्वमवरेणं ।। - स्थूल-सूक्ष्मेषु जेषु पूर्व सप्रपञ्चं प्रायश्चितमुक्तम्, सम्प्रति 'तैरेव' बीजै तोऽपि यथाकृतप्रतिग्रहो ग्रहीतुं कल्पते, 'इति' एवं यद्भणितं तदेतद्युष्माकं पूर्वमपरेण न युज्यते ॥ गुरुराह[मा.४०५१] चोयग! दुविहा असई, संताऽसंता य संत असिवादी ।
इयरा उ झामियाई, संते भणिया उसा सोही॥ वृ-हे नोदक! द्विविधा असत्-सदसत्ता असदसत्ताच। तत्र सदसत्तानाम यत्र ग्रामे नगरे वा भाजनानि सन्ति तत्र अपान्तराले वा विद्यन्ते, अथवा अस्ति भाजनं परं नवरत्वाद् न तावद् वहति, यद्वा तद्भाजनमतिलघुतरमतो न तेन संस्तीर्यते। 'इतरा' असदसत्तासा पुनरियम्-पात्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org