________________
४२०
बृहत्कल्प-छेदसूत्रम् -२-३/८८
'ध्यामित' प्रदीपकेन दग्धम्, आदिशब्दात् स्तेनैर्वाऽपहृतं भग्नं वा । एवंविधयोर्द्वयोरप्यसत्तयोर्यथाकृतमागन्तुकबीजानांभृतमपि कल्पते, नपुनःशुद्धमल्पपरिकर्म । यत्पुनरस्माभि 'शोधि' प्रायश्चित्तमुक्तंसा द्विविधाया असत्ताया अभावेसति पात्रेयो गृह्णाति तद्विषया मन्तव्या ।।किञ्च[भा.४०५२] जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाणे।
अगुणो वि होति उ गुणो, विनिच्छयो सुंदरो जस्स ।। इ. 'यस्तु' यः पुनर्गुणः 'दोषकरः' आत्मोपघातादिदोषजनकः स परमार्थतो गुण एव न भवति किन्तु दोषमेव तं जानीयात्, दोषकारणत्वात्: यस्य तु विनिश्चयः' निर्वाहः सुन्दरः स कथञ्चिदगुणोऽपि परिणासुन्दरतया गुण एव भवति, गुणकारणत्वात्; एवमिहापि यथाकृते यद्यपितान्यागन्तुकबीजानियतनयाऽन्यत्रसामयतः स्वल्पः सट्टनदोषस्तथापिनतत्र सूत्रार्थयोः परिमन्थः, न च छेदन-भेदनादिना आत्मोपधातः, अपि च तद् गृहीतं सत् तस्यामेव वेलायां भक्त-पानग्रहणे उपयुज्यते, एवं सदोषमपि तद् बहुगुणम् । अल्पपरिकर्मादौ तु परिकर्नामाणे सूत्रार्थपरिमन्थः,छेदनादिनाऽऽत्मोपघात इत्यादयोबहवोदषाः, अतः सगुणमपित बहुदोषतरम्।।
अथ “पमाण उवओग छेयण'; ति द्वारमाह[भा.४०५३] असइ तिगे पुन जुत्ते, जोगे ओहोवही उवग्गहिए।
छेयण-भेयणकरणे, सुद्धो जं निजरा विउला । वृ-यथाकृतंत्रीन्वारान्मार्गितं परंन लब्धम्, ततो वारत्रिकं योगे व्यापारे 'युक्ते' कृतेऽपि यथाकृतस्य 'असति' अप्राप्ती, 'पुनःशब्दः' अवधआरणे, स चैतदवधारयति-वारत्रयात् परतोऽल्पपरिकर्मकमेव ग्रहीतव्यम् । अथ तदपि न प्राप्यते ततो बहुपरिकर्मापि ग्राह्यम् । एष ओधोपधौ औपग्रहिकोपधौ च सर्वस्मिन्नपि विधिरवसातव्यः । एवं च क्रमागतमल्पपरिकर्मादि गृहीत्वा तत्रोपयुक्तो यः छेदन-भेदने करोति सः 'शुद्धः' न प्रायश्चित्तभाग, कुतः? इत्याह यद्' यस्माद् यथोक्तक्रमागतं विधिं विदधानस्य निर्जरा विपुला भवति ।। ननु चाल्पपरिकर्मादौ छेदनादिपरिकर्मसम्मवादात्म-संयमविराधना भवति ततः कथं तस्य ग्रहणमनुज्ञायते ? उच्यते[भा.४०५४] चोयग! एताए चिय, असईय अहाकडस्स दो इयरे।
कप्पंति छेयणे पुन, उवओगंमा दुवे दोसा ।। वृ-हे नोदक ! या पूर्वं द्विविधा असत्ता प्ररूपिता एतयैव' यथाकृतस्यासत्तया 'द्वे इतरे' अल्पपरिकर्म-सपरिकर्मणी कल्पेतेप्रतिग्रहीतुम्, परंतयोश्छेदनादौ महताप्रयलेनोपयोगं करोति, मा 'द्वौ' संयमा-ऽऽत्मविराधनालक्षणो दोषी भूतामिति कृत्वा ।। [भा.४०५५] अहवा विकतो नेनं, उवओगो नविय लब्भती पढमं ।
हीणाहीयं वलमति, सपमाणा तेन दो इयरे॥ इ-अथवा कृतः अनेन' साधुना ‘उपयोगः' मार्गणव्यापारः परं न लभ्यते 'प्रथम' यथाकृतं पात्रम्, अथवा लभ्यते परंस्वप्रमाणतोहीनाधिकंतेन कारणेन द्वेइतरे' अल्पपरिकर्म-सपरिकर्मणी यथाक्रमं गृह्णाति ॥ कुतः? इति चेद् उच्यते[भा.४०५६] जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला ।
निञ्जरमेवमलंभे, बितियस्सियरे भवे विउला॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org