SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-८८, [ भा. ४०३४ ] [भा. ४०३४] ४१७ आगर नई कुडंगे, वाहे तेने य भिक्ख जंत विही। कय कारियं व कीतं, जइ कप्पइ घेप्पतू अज्जो ! ।। वृ- 'आकरः' भिल्लपल्लयादि यत्रालाबूनि प्राप्यन्ते, नद्यो यास्तुम्बकैस्तीर्यन्ते, 'कुडङ्गं नाम' यत्र वनखण्डे तमुब्कानि जायन्ते, “वाहे तेने यत्ति व्याधपल्लयां स्तेनपल्लयां वाऽलाबूनि यत्र वनखण्डे तुम्बकानि जायन्ते, “वाहे तेने यत्ति व्याधपल्लयां स्तेनपल्लयां वाऽलाबूनि लभ्यन्ते, “भिक्ख"त्ति ये भिक्षाचा अलाबुकानि गृहीत्वा भिक्षां पर्यटन्ति, "जंत "त्ति यन्त्रशालासु गुडादीनामुत्सेचनार्थमलाबूनि धार्यन्ते, एतेषु स्थानेषु “विहि "त्ति विधिना पात्रकं ग्रहीतव्यम् । कः पुनर्विधि ? इति चेद् उच्यते तत्राकरादिषु गत्वाऽवभाषणे कृते दायकेन च पात्रके दर्शिते प्रष्टव्यम्-कस्यार्थमेतत् कृतम् ? । ततस्तेऽभिदध्यु- युष्माकमर्थाय कृतं कारितं क्रीतं वा, यदि कल्पते तत आर्य ! गृह्यताम् । एवमुक्ते सति गृह्णातीति सङ्ग्रहगाथासमासार्थः ।। अथैनामेव गाथाद्वयेन विवृणोति[भा. ४०३५] आगर पल्लीमाई, निचुदग नदी कुडंगमुस्सरणं । वाहे तेने भिक्खे, जंते परिभोगऽसंसत्तं ॥ वृ- आकरो नाम भिल्लपल्ली भिल्लकोट्टं वा, तत्र प्रायोऽलाबूनि प्रभूतानि प्राप्यन्ते । तथा नित्योदकाः - अगाधजला महानद्यो यत्र ग्रामादौ अलाबुभिस्तीर्यन्ते तत्र पात्राणि प्राप्यन्ते । 'कुडङ्ग' वृक्षगहनं तत्र तुम्बिकानाम् 'उत्सरणं' वापनं क्रियते, यद्वा तासामेव नदीनां कूलेषु ये वृक्षकुडङ्गास्तेषु तुम्बिका वाप्यन्ते । व्याधपल्लयां स्तेनपल्लयां च तुम्बकेषु काञ्जिक-पानीयादीनि प्रक्षिप्यन्ते, कौलालभाजनाभावात् । भिक्षाचरा भिक्षार्थमलाबूनि गृह्णन्ति । यन्त्रशालादिषु च गुडोत्सेचनादिहेतोरलाबूनि गृह्यन्ते । एतेष्वाकरादिषु यस्य प्रतिदिवसं परिभोगः क्रियमाणो विद्यते तत् पात्रकं जन्तुभिरसंसक्तं भवतीति कृत्वा ग्रहीतव्यम् ॥ तत्र [मा. ४०३६ ] तुब्मट्ठाए कयमिणं, अन्नेसऽट्ठाए अहवण सअट्ठा । जो. घेच्छति व तदट्ठा, एमेव य कीय- पामि ॥ वृ- पात्रे च दर्शिते कस्यार्थमेतत् कृतम् य इति पृष्टो दाता ब्रूयात् युष्माकमर्थाय कृतमिदं कारितं वा, अथवाऽन्येषां साधूनामर्यात कृतम्, “अहवण'' त्ति निपातोऽथवार्थे, 'स्वार्थम्' आत्मनोऽर्थाय कृतमिदमस्माभि, यद्वा य एव भिक्षाचरो ग्रहीष्यति तस्यार्थाय कृतमिदम् यावन्तिकमित्यर्थः । एवमेव च क्रीत-प्रामित्यादिकमपि वक्तव्यम् । यच्चात्रात्मार्थ कृतादिकं तत् कल्पते, आधाकर्मिकादिकं तु न कल्पते ॥ गतमाकरद्वारम् । अथ चाउलद्वारमाहचाउल उण्होदग तुयरे कुसणे तहेव तक्के य । [भा. ४०३७] हो भाबियं तं कप्पति भइयव्वगं सेसं ॥ वृ- "चाउल’त्ति तन्दुलधावनम्, 'उष्णोदकं' प्रतीतम्, 'तुवरं' कुसुम्भोदकादि, 'कुसणं' मुद्गदाल्यादि तस्य यदुदकं तदपि कुसणम्, तक्रं प्रतीतम्, एतैर्यद् भावितं तत् कल्पते । 'शेषम्' एतद्विपरीतजलभावितं 'भक्तव्यं' विकल्पनीयम् ।। भजनामेवोपदर्शयति [भा. ४०३८ ] सीतजलभावियं अविगते तु सीतोदए न गिण्हति । 1927 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy