________________
४१६
बृहत्कल्प-छेदसूत्रम् -२-३/८८ [भा.४०२९] को गेण्हति गीयत्यो, असतीए पायकप्पिओ जो उ।
उस्सग्ग-ऽववाएहिं, कहिज्जती पायगहणं से ॥ वृ-कः संयतः पात्रंगृह्णाति? सूरिराह-'गीतार्थः' परिज्ञातसकलच्छेदश्रुतार्थ पात्रकंगृह्णाति। अथ नास्ति गीतार्थस्ततोयः पात्रकल्पिकः' गृहीतपात्रैषणासूत्रार्थ सगृह्णाति।तस्याप्यभावे यो मेधावी तस्य पात्रग्रहणुत्सर्गतोऽपवादतश्च कथ्यते ततोऽसौ पात्रं गृह्णीयात् ।।
अथ पौरुषीद्वारमाह[भा.४०३०] हुंडादि एकबंधे, सुत्तत्थे करते मग्गणं कुजा ।
दुग-तिगबंधे सुत्तं, तिण्हुवरि दो वि वजेज्जा ।। वृ- यत् पात्रं हुण्डम्, आदिशब्दाद् दुष्पुतं कीलकसंस्थितं शबलं च, यच्चैकबन्धम्, एतानि परिभुजानः सूत्रा-ऽर्थपौरुष्यौ द्वे अपि कुर्वन् यथाकृतादेः पात्रस्य मार्गणां कुर्यात् । अथ द्विविधं त्रिविधं (द्विबन्धं त्रिबन्ध] वा पातरं परिभुज्यमानमस्तिततःसूत्रपौरुषींकृत्वाऽर्थपौरुषी हापयित्वा मार्गयति।अथ त्रयाणांबन्धानामुपरि चतुःप्रभृतिस्थानेषुतत्पात्रंबद्धमस्ति ततः सूत्रार्थपौरुष्यो द्वे अपि वर्जयेत्, सूर्योदयादारभ्यैवापरं पात्रकं मार्गयतीति ॥अथ कालद्वारमाह[भा.४०३१] चत्तारि अहाकडए, दो मासा होति अप्पपरिम्मे ।
तेन पर मग्गियम्मि य, असतिग्गहणं सपरिकम्मे ।। वृ-हुण्ड-शबलताद्यलक्षणयुक्तं पात्रं धारयता चतुरो मासान् यथाकृतं मार्गयितव्यम् । चतुर्दा मासेषु पूर्णेष्वपि यदा यथाकृतं न प्राप्यते तदा दौव मासावल्पपरिकर्मगवेषणे भवतः। ततः परं मार्गितेऽप्यल्पररिकर्मण्यप्राप्ते षण्मास्यां पूर्णायां सपरिकर्मणो ग्रहणं करोति ॥ तच कियन्तं कालं गवेषणीयम् ? इत्याह[भा.४०३२] पणयालीसं दिवसे, मग्गित्ता जा न लब्मए ततियं ।
तेन परेण न गिण्हइ, ना पक्खेणं न रज्जेजा ।। वृ-पञ्चचत्वारिंशतं दिवसान् 'तृतीयं' बहुपरिकर्म मार्गयित्वा यदि न लभ्यते ततः किम् ? इत्याह-"तेन परेण"त्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततः पञ्चचत्वारिंशतो दिवसेभ्यः परं बहुपरिकर्मनगृह्णाति । कुतः? इतिचे उच्यते-यथाकृतगवेषणकालादारभ्य सार्धसप्तसुमासेषु गतेषु पञ्चदशभिर्दिवसैवर्षा रात्रौ भवति, तेन च पक्षमात्रेण कालेन मा तत् पात्रकं 'नरज्येत' मा लिप्तं सत्प्रगुणीभवेत्।किमुक्तं भवति?-वर्षाकाले पात्रस्यपरिकर्मकर्तुन लभ्यते, बहुपरिकर्मणि च पात्रे छेदन-भेदनादि प्रभूतं परिकर्म विधेयम्, तच्च पक्षमात्रेण न कर्तुं पार्यते, अतः पञ्चचत्वारिंशदिवसेभ्यः परतो न ग्रहीतव्यमिति ॥ गतं कालद्वारम्, अथाकरद्वारमाह[मा.४०३३] कुत्तीय सिद्ध-निण्हग-पवंच-पडिमाउवासगाईसु।
कुत्तियवज्जं बितियं, आगरमाईसु वा दो वि।। वृ-यथाकृतंपात्रकंकुत्रिकापणेमार्गयितव्यम्। सिद्धपुत्रकस्य वा निह्नवस्य वा प्रपञ्चश्रमणस्य वा एकादशी प्रतिमां पूरयित्वा वा श्रमणोपासको गृहं प्रत्यागतस्तदादेर्वा पार्वे यथाकृतं पात्रं प्राप्यते । 'कुत्रिकापणवर्ज' शेषेषु सिद्धपुत्रकादिषु 'द्वितीयम् अल्पपरिकर्म प्राप्यते । अथवा आकरादिषु 'द्वे अपि' अल्पपरिकर्म-सपरिकर्मणी प्राप्यते ॥ तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org