________________
उद्देश : ३, मूल-८८, [भा. ४०२४]
[ भा. ४०२४] हुण्डे चरित्तभेओ, सबलम्मि य चित्तविष्ममं जाणे । दुष्पुते खीलसंठाणे, नत्थि ट्टाणं ति निद्दिसे ॥
वृ- 'हुण्डे' विषमसंस्थिते 'चारित्रस्य भेदः' मूलोत्तरगुणविषयाश्चारित्रातिचारा इत्यर्थः । शबलंविचित्रवर्णं तत्र 'चित्तविभ्रमं क्षिप्तवित्ततादिरुपं सम्भवन्तं जानीयात्। दुप्पुयं नामपुष्पकमूले न प्रतिष्ठितम्, कीलकसंस्थानं तु कर्पराकारं कीलकवद् दीर्धम्, ईध्शे पात्रे गणे चरणे वा स्थानं नास्तीति निर्दिशेत् ॥
[भा. ४०२५ ]
पउमुप्पले अकुसलं, सव्वणे वणमाइसे। अंतो बहिं व दहे, मरणं तत्थ निद्दिसे ।।
वृ- 'पद्मोत्पले' अधः पद्मोत्पलाकारपुष्पकयुक्ते साधूनामकुशलं भवति । सव्रणे व्रणमादिशेत्, पात्रकस्वामिनो व्रणो भवतीति भावः । अन्तर्बहिर्वा दग्धे सति पात्रके मरणं निर्दिशेत् ।।
अत्रैव प्रायश्चित्तमाह
[भा. ४०२६] दड्ढे पुण्फगभिन्ने, पउमुप्पल सव्वणे य चउगुरुगा । सेसमभिन्ने लगा, हुंडादीएसु मासलहु ॥
४१५
वृ- अन्तर्बहिर्वा दग्धे पात्रे तथा पुष्कं पात्रकस्य नाभि तत्र यद् भिन्नं तस्मिन् तथा पद्मोत्पलाकारपुष्पकयुक्ते सव्रणेच प्रत्येकं चतुर्गुरुकाः । शेषेषु-पुष्पकव्यतिरिक्तेषु कुक्ष्यादिस्थानेषु भिन्ने चतुर्लघुकाः । हुण्डे आदिशब्दाद् वाताविद्धे दुष्पुते कीलकसस्थाने अवर्णाढ्ये शबले च मासलघु ॥ गतं लक्षणा - Sलक्षणद्वारम्, अथ त्रिविधोपधिद्वारमाह
[भा. ४०२७] तिविहं च होइ पायं, अहाकडं अप्प-सपरिकम्मं च । पुव्वमहाकडगहणं, तस्सऽसति कमेण दोन्नियरे ।।
वृ- त्रिविधं च भवति पात्रम्- अलाबुमयं दारुमयं मृत्तिकामयम्। पुनरेकैकं त्रिविधम्यथाकृतमल्पपरिकर्म सपरिकर्म च । पूर्वं यथाकृतस्य ग्रहणम्, तस्याभावे क्रमेणेतरे द्वे पात्रके ग्रहीतव्ये, प्रथममल्पपरिकर्म तदप्राप्ती बहुपरिकर्मापीत्यर्थः ॥ विपर्यस्तद्वारमाह
[ भा. ४०२८] तिविहे परूवियम्मिं, वोचत्थे गहणे लहुगा आणादी । छेदन-भेदनकरणे, जा जहि आरोवणा भणिता ॥
वृ-यथाकृतादिभेदात् त्रिविधे पात्रे प्ररूपिते सति ततो विपर्यस्तग्रहणे चतुर्लघुकाख्यं प्रायश्चित्तम्, आज्ञादयश्च दोषा वक्तव्याः । तत्र यथाकृतादिप्ररूपणं तावद् विधीयते यथाकृतं नामपूर्वकृतमुखंप्रदत्तलेपं च सर्वथा परिकर्मरहितम्, अल्पपरिकर्म तु पात्रं तदुच्यते यदर्धाङ्गुलं यावत् छिद्यते, अर्धाकुलात् परतिश्छिद्यमानं बहुपरिकर्मकम् । पुनरेकैकं त्रिधा उत्कृष्ट-मध्यम-जघन्यभेदात् । तत्रोत्कृष्टस्य यथाकृतस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्पपरिकर्म गृह्णाति चतुर्लघवः, बहुपरिकर्म गृह्णाति चतुर्लघवः । यदा यथाकृतं योगे कृतेऽपि न प्राप्यते तदाऽल्पपरिकर्मणो योगमकृत्वा बहुपरिकर्म गृह्णाति चतुर्लघव आज्ञादयश्च दोषाः, एवं मध्यम- जघन्ययोरपि भावना कर्त्तव्या । नवरं मध्यमस्य विपर्यासेन ग्रहणे मासलघु, जघन्यस्य विपर्यासग्रहणे पञ्चकम् । अपि च सपरिकर्मणि पात्रे छेदन-भेदनादि कुर्वतो या यत्रारोपणा पीठिकायां पात्रकल्पिकद्वारे भणिता सैवेहापि मन्तव्या ॥ अथ 'क:' इति द्वारं विवृणोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org