________________
बृहत्कल्प-छेदसूत्रम् - २-३/८८
लघुना भाजनेन भिक्षां पर्यटति, 'इति' एवं 'गौरवेण ' यशः प्रवादलिप्सालक्षणेनावमं भाजनं करोति । अतिप्रमाणं पुनः पात्रममुना कारणेन करोति ॥
[मा. ४०१९] अनिगूहियबल - विरिओ, वेयावच्चं करेति अहो ! समणो । मम तुल्लो न य कोयी, पसंसकामी महल्लेणं ॥
४१४
वृ- 'अथ' इत्युपन्यासे । अहो ! अयं श्रमणः पुण्यात्मा अनिगूहितबल - वीर्यो महता भाजनेन सकलस्यापि गच्छस्य वैयावृत्यं करोति, एवं प्रशंसाकामी नास्ति कोऽपि मम बाहुबलमङ्गीकृत्य 'तुल्यः' सध्श इति ख्यापनार्थमतिरिक्तं भाजनं करोति ॥ अथ लुब्धपदं व्याचेष्टअंतं न होइ देयं, धोवासी एस देह से सुद्धं । उक्कोसस्स व लंभे, कहि घेच्छ महल लोभेणं ॥
[भा. ४०२०]
वृक्षुल्लकभाजनेन गृहाङ्गणस्थितं साधुं दृष्ट्वा गृहस्वामी भणति 'स्तोकाशी' स्तोकाहारोऽयं मुनि अतोऽस्यान्तप्रान्तं भक्तं न देयम्, किन्तु 'शुद्धम्' उत्कृष्टद्रव्यम् अस्य प्रयच्छ्थ, एवं विचिन्त्य लुब्धतया हीनप्रमाणं करोति । तथा 'उत्कृष्टस्य' शालि-मुद्रदाल्योदेर्द्रव्यस्य प्रभूतस्य लाभे सति चिन्तयति-अनेन प्रमाणोपेतभाजनेन पूर्वं सामान्यभक्तस्य भृतेन पश्चादुत्कृष्टद्रव्यं लभ्यमानं कुत्र ग्रहीष्यामि ? इति विचिन्त्य लोभेन महत्तरं भाजनं गृह्णाति ॥ अथासम्प्राप्ति-ज्ञायकपदे व्याख्याति[भा. ४०२१] जुत्तपमाणस्सऽ सती, हीन ऽतिरिक्तं चउत्थो धारेति ।
लक्खणज्य हीन - ऽहियं, नंदी गच्छट्ट वा चरिमो ॥
वृ युक्तप्रमाणं यथोक्तप्रमाणोपेतं तद् अनेकशो गवेष्यमाणमपि न प्राप्यते, अतस्तस्याभावे हीनं वाऽतिरिक्तं वा पात्रं चतुर्थः सङ्ग्रह गाथोक्त कमप्रामाण्यादसम्प्राप्तिमान् धारयति । तथा यद लक्षणयुक्तं तद् लक्षणा 5 लक्षणवेदी हीनाधिक प्रमाणामपि ज्ञानादिवृद्धिनिमित्तं धारयति । यद्वा गच्छस्योपग्रहकरं यद् नन्दी भाजनं तद् गच्छार्थं 'चरमः ' चरमद्वारवर्त्ती-ज्ञायको धारयति ॥ गतमपवाद द्वारम्, अथ लक्षणाऽ लक्षण द्वारमोह
[ मा. ४०२२ ]
वट्टं समचउरंसं, होइ थिरं थावरं च वन्नहं । हुंडं वायाइद्धं, भिन्नं च अधारणिज्जाई ॥
वृ- 'वृत्तं' वर्तुलं तदपि 'समचतुरस्रं' उच्छ्यपरिधिना कुक्षिपरिधिना च तुल्यं 'स्थिरं' सुप्रतिष्ठानं ढं वा 'स्थावरम्' अप्रातिहारिकं 'वर्णाढ्यं' स्निगधवर्णोपितं पाठान्तरेण "धनं तु" त्ति एतैर्गुणैर्युक्तं 'धन्यं' एवंविधं लक्षणयुक्तमुच्यते । तथा 'हुण्डं' विषमसंस्थितं क्वचिद् निम्नं क्वचिदुन्नतमित्यर्थः, 'वाताविद्धं' निष्पत्तिकालमन्तरेणार्वागपि शुष्कम् अत एव सङ्कुचितं वलिभृतं च सञ्जातम्, 'भिन्नं नाम' सच्छिद्र राजियुक्तं वा एतान्यलक्षणतयाऽधारणीयानि ।।
अथ लक्षणा - S लक्षणयुक्तयोरेव गुण-दोषानाह
[ भा. ४०२३]
संठियम्पि भवे लाभो, पतिट्ठा सुपतिट्टिए ।
निव्वणे कित्तिमारोग्गं, वन्नड्डे नाणसंपया ॥
वृ- 'संस्थिते' वृत्त - समचतुरस्त्र पात्रे धार्यमाणे विपुलो भक्त पानादिलाभो भवति । 'सुप्रतिष्ठिते' स्थिरे पात्रे चारित्रे गणे आचार्यादिपदे वा 'प्रतिष्ठा' स्थिरता सञ्जायते । 'निर्व्रणे' व्रणविकले कीर्त्तिरारोग्यं च भवति । 'वर्णाढ्ये' स्निग्धवर्णपिते 'ज्ञानसम्पत्' प्रभूतसूत्रा ऽर्थलाभरुपा भवति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org