________________
उद्देशक : ३, मूलं-८८, [भा. ४०१३]
- ४१३
यश्चत्वार्यकुलानि च भवन्ति तदा तस्य 'भाजनस्य' पात्रकस्य तद् मध्यमप्रमाणम् । इतः' मध्यमप्रमाणाद् हीनं यत् पात्रं तद् जधन्यम् । ‘अतिरिक्ततरं तु मध्यमप्रमाणाद् बृहत्तरमुत्कृष्टम् ।। अथवा[भा.४०१४] उक्कोसतिसामासे, दुगाउअद्धाणमागओ साहू।
चउरंगुलवजं भत्त-पान पञ्जत्तियं हेट्ठा ॥ वृ-उत्कृष्टस्तृड्मासः स उच्यते यस्मिन् अतीवप्रबला पिपासा समुल्लसति, सच ज्येष्ठ आषाढो वा; तस्मिन् काले द्विगव्यूतप्रमाणादध्वन आगतो यः साधुः तस्येशकाला-ऽध्वखित्रम्य यत् 'चतुरङ्गुलवर्जम्' उपरितनैश्चतुर्भिरङ्गुलैन्यूनमधस्ताद्भक्त-पानस्य भृतं पर्याप्तं भवति तदित्यम्भूतं पात्रकस्य प्रमाण मन्तव्यम् ॥ [मा.४०१५] एयं चेव पमाणं, सविसेसयरं अनुग्गहपवत्तं ।
कंतारे दुभिक्खे, रोहगमाईसु भइयव्वं ॥ वृ- एतदेव प्रमाणं 'सविशेषतरं' समधिकतरं यस्य भाजनस्य भवति तद् ‘अनुग्रहप्रवृत्तं' गच्छस्यानुग्रहार्थं प्रवर्तते । कथम्? इत्याह-‘कान्तारे' महत्यामटव्यां वर्तमानस्य तदुत्तीर्णस्य वा गच्छस्यानुग्रहार्थंतद्गृहीत्वा वैयावृत्यकरः पर्यटति, दुर्भिक्षेऽप्यलभ्यमानयां भिक्षायां तद्गृहीत्वा चिरमटित्वा बालादिभ्यो ददाति, एवं नगरस्य रोधके सआते आदिशब्दादपरेषु वा भयविशेषेषु कश्चिद् दानश्रद्धालुर्यावदेकस्मिन् भाजने माति तावत् प्रचुरतरमपि भक्त-पानं दद्यात्, तत्र तद् अतिरिक्तभाजनं भक्तव्यं सेवनीयम्॥अथापवादद्वारममिधित्सुफैकारणैरधिकंहीनं वाधारयति तानि तावदर्शयति[भा.४०१६] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए।
लहुओ लहुया गुरुगा, चउत्थो सुद्धो उ जाणओ कृ-यदि अज्ञानेन हीना-ऽधिकप्रमाणंभाजनंधारयति ततोलघुमासः । गौरवेणधारयतश्चत्वारो लघवः । लोभनं लुब्धं लोभ इत्यर्थः, तेनधारयतश्चत्वारो गुरवः । असम्प्राप्ति म-प्रमाण-युक्तस्य पात्रस्याप्राप्तिस्तस्यां यो हीना-ऽतिरिक्तं धारयति सः 'चतुर्थ' असम्प्राप्तिधारकः शुद्धः । तथा ज्ञायको नाम-पात्रलक्षणा-ऽलक्षणवेदी स लक्षणयुक्तं हीना-ऽधिकप्रमाणमपि धारयन् शुद्ध इति द्वारश्लोकसमासार्थः । अथैनमेव विवृणोति[भा.४०१७] हीना-ऽदिरेगदोसे, अजाणओ सो धरिज हीन-ऽहियं ।
पगईय थोवभोगी, सति लाभे वा करेतोमं ।। वृ-पात्रस्य ये हीना-ऽतिरिक्तविषया दोषाः पूर्वमुक्तास्तान् यो यतिर्न जानीते स हीनाऽधिकप्रमाणंधारयेत्।तथा कश्चिद्ऋद्धिगौरवगुरुकः सत्यपि भक्त-पानलाभेप्रकृत्यैवस्तोकभोजी 'स्वल्पाहारोऽयं महात्मा' इति ख्याफ्नार्थम् ‘नवम' हीनप्रमाणं भाजनं करोति ॥
किं पुनस्तस्य ऋद्धिगौरवम् ? इत्याह[भा.४०१८] ईसरनिक्खंतो वा, आयरिओ वा वि एस डहरेणं ।
, इति गारवेण ओमं, अइप्पमाणं चिमेहिं तु ।। पृ-'ईश्वरनिष्क्रान्तो वा' राजादिमहर्द्धिकप्रव्रजितः, आचार्यो वा एष साधुर्यदेवं 'डहरेण'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org