________________
बृहत्कल्प - छेदसूत्रम् - २-३/८८
४१२
भवति, निर्जरायाश्च लाभो न भवतीति सङ्क्षेपहगाथासमासार्थः ॥ अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह
[ मा. ४००९ ] गुरुगाय गुरु-गिलाणे, पाहुण-खमए य चउलहू होंति । सेहस्स होइ गुरुओ, दुब्बल जुयले य मासलहु ।।
वृ- गुरुणां ग्लानस्य चोपष्टम्भमकुर्वतश्चतुर्गुरुकाः । प्राघुणकस्य क्षपकस्य चोपष्टम्भाकरणे चतुर्लघवो भवन्ति । शैक्षस्यादाने मासगुरुकः । दुर्बलस्य 'युगलस्य च ' बाल-वृद्धलक्षणस्यादाने
मासलघु ॥
[मा. ४०१०] अप्प - परपरिचाओ, गुरुमाईणं अदेंत देंतस्स । अपरिच्छिए य दोसा, वोच्छेओ निजाराऽलाभे ।।
वृ- लघुतरभाजनगृहीतं गुर्वादीनां यदि ददाति तत आत्मपरित्यागः, अथ स्तोकमिति कृत्वा न ददाति ततो गुर्वादीनां परेषां परित्यागः कृतो भवति । तथा प्रमाणहीनं भाजनं गृहीत्वा क्षेत्रप्रत्युपेक्षणार्थं गतः कथं लाभा ऽलाभं परीक्षताम् ? ततोऽपरीक्षिते क्षेत्रे ये दोषास्ते मन्दपरीक्षिते मन्तव्याः । अध्वनि प्रपन्नानां च सङ्घडिर्भवेत्, दानश्राद्धो वा कश्चिदनुकम्पया प्रभूतं भक्त पानं दद्यात् यद्वा स्वस्थानेऽपि धृतादि साधारणद्रव्यं लभ्येत तत्र लघुतरभाजने भक्त-पान- लाभस्य निर्जरायाश्च व्यवच्छेदो भवति ।। अथ क्षुल्लकभाजनस्यैव दोषान्तराभिधानायाहलेवकडे वोसट्टे, सुक्खे लग्गे य कोडिते सिहरे ।
[ भा. ४०११]
एए हवंति दोसा, डहरे भाणे य उड्डाहो ।
$
वृ-तक्रादिना तदवमप्रमाणं भाजनमाकण्ठमापूरितं ततो वोसट्टे" त्ति प्रलुठिते तक्रादौ तद् भाजनं लेपकृतं क्रयते । अथ पात्रलेपनभयात् तत्र शुष्कमेव भक्तं गृह्णाति ततस्तद् भक्तं भुञ्जनस्य गलके उदरे वा लगेत्, लग्ने च तत्राजीर्ण भवेत् । "कोडियं" ति गाढचम्पितं चम्प्यमानं वा पात्रकं भज्येत । 'शिखरं वा' पात्रस्योपरि भक्तस्य शिखां कुर्वन्तं दृष्टवा लोको ब्रूयात्-अहो ! असन्तुष्टा बहुभक्षका अमी; एवमुड्डाहो भवेत्। एते डहरे भाजने दोषाः ॥ अथैनामेव भावयति
[ भा. ४०१२] धुवणा-ऽ धुवणे दोसा, वोसÍते य काय आउसिणे ।
सुक्खे लग्गाऽजीरग, कोडिय सिहरे य उड्डाहो ।।
वृ- अतिभृतत्वेन तक्र-तीमनादीनी प्रलोठ्यता यत् पात्रकं लेपकृतीकृतं तस्य घावनाऽधावनयोरुभयोरपि दोषाः । तत्र धावने प्लावनादयः, अधावने तु रात्रिभोजनव्रतभङ्गः । “वोसते य" परिगलति भक्त पाने षन्नां कायानां विराधना । अथवा तेनोष्णेन परिगलता दिग्धशरीरस्यात्मविराधना | शुष्केच भक्तेऽतिमात्रं भुज्यमाने गलके उदरे वा लग्नेऽजीर्णं भवेत्, तत्र च ग्लानारोपणा । “कोडितं " गाढं चप्पितं सन् तत् पात्रकं भज्येत। 'शिखरे च' भक्तस्योपरि शिखायां विधीयमानायां उड्डाहो भवति । यत एवमादयो दोषास्ततः प्रमाणयुक्तमेव ग्रहीतव्यम् ॥ कीदृशं पुनस्तत् प्रमाणम् ? इत्याशङ्कय प्रमाणमाह
[भा. ४०१३] तिनि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं ।
एतो हीन जहन्नं, अतिरेगयरं तु उक्कोसं ॥
वृ- पात्रस्य परिधिर्दवरकेण भीयते, तत्र च मिते यदा स मानदवरकस्तिस्त्र वितस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
F