SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ उद्देशक :३, मूलं-८८, [भा. ४००४] ४११ [भा.४००४] भाणऽप्पमाणगहणे, भुंजणे गेलनऽभुंज उज्झिमिगा। एसणपेलण भेओ, हानि अडते दुविह दोसा॥ वृ."भाणऽप्पमाण" त्ति अकारप्रश्लेषाद् 'अप्रमाणस्य' अतिबृहत्तरप्रमाणस्य भाजनस्य, ग्रहणे इमे दोषाः-तदतिबृहत्तरं भाजनं परिपूर्णमपि भृत्वा यदि सर्वमपि भुकते ततो ज्वरादिकं ग्लानत्वं भवेत् । अथ न भुक्ते ततः 'उज्झिमिका परिष्ठापनिका भवति । अतिबृहत्तरं च पात्रं यदा चिरेणापि न पूर्यते तदा एषणाप्रेरणं कृत्वाऽपि बिभृयात् । भरितं चातिभारेण प्रतिस्खल्य भेदमुपगच्छेत् । ततो भाजनेन विना या आत्मनः कार्यपरिहाणिस्तनिष्पन्नं प्रायश्चित्तम् । गुरुत्वेन चात्म-संयमविराधानालक्षणा द्विविधादोषा भवन्ति-तत्रात्मविराधनायांपर्यटतोऽतिभारेण कटीस्कन्धादिकं परिताप्येत, संयमविराधनायामीर्यामशोधयन् षट्कायान् विराधयेत् ।। गतमतिरिक्तद्वारम् । अथ हीनद्वारमाह[भा.४००५] हीनप्पमाणधरणे, चउरो मासा हवंति उग्धाया। आणादियो य दोसा, विराधना संजमा-ऽऽयाए॥ वृ-यत् प्रतिग्रहस्य मात्रकस्य वा प्रमाणं वक्ष्यते ततो हीनं यदि धारयति तदा चत्वारो मासा उद्घातिमा भवन्ति, एतच्च प्रतिग्रहे मन्तव्यम् । मात्रके तु मासलघु । आह च निशीथचूर्णिकृतेपडिग्गहगे चउलहुं, मत्तगे मासलहुं । आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।। इदमेव भावयति[भा.४००६] ऊनेन न पूरिस्सं, आकंठा तेन गिण्हती उभयं । मा लेवकडं ति पुनो, तत्थुवओगो न भूमीए ।। वृ-अनेन प्रमाणहीनेन 'ऊनेन' अभरितेन नाहमात्मानं पूरयिष्ये, तत आकण्ठात् तत्र भाजने 'उभयमपि' कूरं कुसणं च गृह्णाति । ततो मा पात्रबन्धो लेपकृतो भवत्विति कृत्वा 'तत्रैव' पात्रकबन्धखरण्टने उपयोगो भवति, न पुनर्भूमौ ।। अनुपयुक्तस्य चेमे दोषाः[भा.४००७] खाणू कंटग विसमे, अभिहणमाई न पेहए दोसे । रीया पगलिय तेनग, भायणमेए य छक्काया॥ वृ- ईर्यायामनुपयुक्तः स्थाणुना कण्टकेन वा विध्यते, विषमे वा भूभागे निपतेत्, गवादिकृताभिघातादींश्च दोषान् न प्रेक्षते, इयमात्मविराधना ।संयमविराधना त्वेवम्-अनुपयुक्त ईर्यां न शोधयते, भाजनाच्च भक्तं पानकं वा परिगलेत, तच्च प्रगलितं विलोक्य स्तेनाः 'परिपूर्ण भृतमिदं भाजनमस्ति' इति परिभाव्यापहरेयुः । अथ कुत्रापि प्रस्खलितस्ततो भाजनभेदः षट्कायविराधना वा भवेत् ॥ [भा.४००८] गुरु पाहुण अम दुब्बल, बाले वुड्ढे गिलाण सेहे य । लाभाऽऽलाभऽद्धाणे, अनुकंपा लाभवोच्छेदो ।। वृ-प्रमाणहीनंभाजनं धारयतागुरु-प्राधुणक क्षपक-दुर्बला बालोवृद्धो ग्लानः शैक्षश्वपरित्यक्ता मन्तव्याः। तथा क्षेत्रप्रत्युपेक्षणार्थं प्रेषितस्तेन लघीयसाभाजनेन कथं लाभा-ऽलाभपरीक्षां करोतु? छिन्नाध्वनि वा कश्चिद् दानश्रद्धालुरनुकम्पया यद् यदुपस्थाप्यते तत् तद् भाजनं भरति, तत्र गच्छसाधारणं भाजनमुपस्थापयितव्यम् । हीनभाजने पुनरुपस्थाप्यमानेतस्य लाभस्य व्यवच्छेदो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy