________________
४१०
बृहत्कल्प-छेदसूत्रम् -२-३/८८ लक्खणमलक्खणं तिविह उवहि वोचत्थ आणादी॥ [भा.४०००] को पोरुसी य कालो, आगर चाउल जहन्न जयणाए।
चोदग असती असिव, प्पमाण उवओग छेयण मुहे य॥ वृ-द्रव्यमिह-पात्रंतस्य यद् वक्ष्यमाणंप्रमाणं ततोऽतिरिक्ते हीने च पात्रे दोषा वक्तव्याः वा अलक्षणम् ? ३ । 'त्रिविधः' उत्कृष्टादिभेदायथाकृतादिभेदाता त्रिप्रकार उपधिर्यथा गृह्यते ।। यथोक्तक्रमाच विपर्यस्तेन ग्रहणे प्रायश्चित्तमाज्ञादयश्च दोषाः ५॥ तथा “को" ति कः पात्रं गृह्णाति? ६। “पोरिसि"त्तिबहुबन्धनबद्धपात्रंधारयता सूत्राऽर्थपौरुष्यौ द्वे अपि हापयित्वाऽपरं पात्रं गवेषणीयम्७ । “कालो" त्ति तस्य च गवेषणे कियान् कालः? इति ८ 'आकरः' कुत्रिकापणादियत्रपात्रंगवेष्यमाणंलभ्यते९।"चाउल"तितन्दुलधावनेनउपलक्षणत्वादुष्णोदकादिना वा भावितं किं कल्पते ? न वा? इति १० । “जहन्न जयण" त्ति जघन्यं पञ्चकप्रायश्चित्तम्, जघन्यानि वा-सर्षपादीनि बीजानि तद्युक्तमपि पात्रं यतनया ग्रहीतव्यम् ११।नोदकः प्रेरयतिकथं बीजभृतमपि पात्रमनुज्ञायते ? १२ / सूरिराह-यदेतद् बीजयुक्तपात्रग्रहणमनुज्ञातं तद् 'असत्तायां पात्रकस्याभावे, यत्र वा भाजनानि लभ्यन्ते तत्र अपान्तराले वा अशिवम् १३ । "पमाण उवओग छेयण"त्ति यदि प्रमाणयुक्तं पात्रं न लभ्यते तत उपयोगपूर्वकं पात्रस्यच्छेदनं विधाय प्रमाणं विधेयम् १४ । “मुहे" त्ति अल्पपरिकर्म-सपरिकर्मकयोर्मुखकरणं सम्भवति न यथाकृते १५। एवमेतानि द्वाराणि प्ररुपणीयानीति द्वारगाथाद्वयस पार्थः ।।
साम्प्रतमेतदेव विवरीषुराह[भा.४००१] पमाणातिरेगधरणे, चउरो मासा हवंति उग्घाया।
आगाइणो य दोसा, विराधना संजमा-ऽऽयाए । वृ-प्रमाणातिरिक्तपात्रकस्य धारणे चत्वारो मासा उद्धातिका भवन्ति, आज्ञादयश्च दोषाः, विराधना व संयमा-ऽऽत्मविषया ।। इदमेव भावयति[भा.४००२] गणनाए पमाणेण य, गणनाए समत्तओ पडिग्गहओ।
पलिमंथ भेरुटुंडग, अतिप्पमाणे इमे दोसा ।। वृ-गणनया प्रमामेनचपात्रकस्य प्रमाणं द्विविधम् । तत्र गणनायां 'समात्रकः' मात्रकसहितः प्रतिग्रहो मन्तव्यः। अथ इतऊर्ध्व तृतीयादिकंपात्रंधारयतिततः परिकर्मण-रङ्गनादौप्रत्युपेक्षणादिषु च महान् परिमन्थो भवति, अध्वनि बहूनि पात्राणि बहमानस्य भारः, बहूपकरणश्च ‘उद्दुण्डुकः' जनोपहास्यो भवति, अहो ! भारवाहकोऽयमिति । तत्र च 'अतिप्रमाणे' प्रमाणद्वयातिरिक्ते पात्रे एते दोषाः ।। तद्यथा[भा.४००३] भारेण वेयणा वा, अभिहणमाई न पेहए दोसा ।
रीयाइ संजमम्मि य, छक्काया भाणभेओ य॥ वृ-प्रभूतपात्रवहने भारेणाक्रान्तस्य वेदना, तयाऽदितो गो-हस्ति-तुरङ्गमादीनमिघातं-प्रहारं प्रयच्छति, न पश्यति, आदिशब्दात् स्थाणु-कण्टकादीनि न प्रेक्षते, एवमात्मविराधनायां दोषाः। संयमविराधनायाम् ईर्यादिकंन शोधयति, ततश्चषट्कायविराधना, अनुपयुक्तो वा प्रस्खलितो भाजनभेदमपि विदध्यात् ।। एते गणनातिरिक्ते दोषा उक्ताः, प्रमाणातिरिक्तेतु पात्रे इमे दोषाः
www.jainelibrary.org,
Jain Education International
For Private & Personal Use Only