________________
उद्देश : ३, मूलं-८८, [ भा. ३९६५ ]
४०३
कल्पिकानां द्वादशविध उपधि सम्भवति, एष तुशब्दसूचितो विशेषार्थः । “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणम्" इति न्यायाद् अन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरणप्रमाणमवसातव्यम् ।। अथ स्थविरकल्पिकानङ्गीकृत्याह
[भा. ३९६४]
एए चैव दुवालस, मत्तग अइरेग चोलपट्टो य । एसो उ चउदसविहो, उवही पुन धेरकप्पम्मि ||
वृ- 'एत एव' अनन्तरोक्ता द्वादशोपधिभेदा अपरं चातिरिक्तं मात्रकं चोलपट्ट्कश्च, एष चतुर्दशविध उपधिः स्थविरकल्पे भवति ।। अनन्तरोक्तमेवार्थमुपसंहरन्नाहजिना बारसरूबाई, थेरा चउदसरुविणो । ओहेण उवहिमिच्छंति, अओ उद्धं उवग्गहो ।
[ मा. ३९६५ ]
वृ- 'जिना:' जिनकल्पिका उपकरणानां द्वादशरूपाणि धारयन्तीति शेषः । स्थविरास्तु 'चतुदशरुपिणः' उपकरणचतुर्दशकधारिण इत्यर्थः । एवम् 'ओधेन' सामान्येनोपधिमिच्छन्ति तीर्यकराः, औघोपधिमित्यर्थः । 'अत ऊर्ध्वम्' अतिरिक्तो दण्डक - चिलिमिलिकादि स्थविरकल्पिकानां सर्वोऽप्युपग्रहोपधिर्मन्तव्यः ॥ अथ जिनकल्पिकानामुपधेरुत्कृष्टादिविभागं प्रमाणप्रमाणं चाह[भा. ३९६६ ] चत्तारिय उक्कोसा, मज्झिमग जहन्नगा वि चत्तारि ।
कप्पाणं तु पमाणं, संडासो दो य रयणीओ ॥
वृ- जिनकल्पिकानां चत्वार्युपकरणान्युत्कृष्टानि भवन्ति, त्रयः कल्पाः प्रतिग्रहश्चेति । मध्यमजघन्यान्यपि प्रत्येकं चत्वारि-तत्र पटलकानि रजसत्रणं रजोहरणं पात्रकबन्धश्चेति मध्यमानि, मुखवस्त्रिका पात्रकेसरिका पात्रस्थापनं गोच्छकश्चेति जघन्यानि । एतेषां च ये कल्पास्तेषां 'सन्दंशकः' कुरण्टको द्वौ च 'रत्नी' हस्तौ दीर्घत्वेन प्रमाणे भवति, विस्तरतस्तु सार्धं हस्तमेकम् ।।
अथवा
[भा. ३९६७ ]
अन्नो वि य आएसो, संडासौ सत्थिए नुवन्नेय । जं खंडियं दढं तं, छम्मासे दुब्बलं इयरं ॥
बृ- अन्योऽपि च 'आदेश' प्रकारोऽस्ति । कः ? इत्याह- सन्देशः स्वस्तिकश्च । तत्र जिनकल्पिकस्योत्कटुकनिविष्यस्य जानुसन्दंशकादारभ्य पुतौ पृष्ठंच छादयित्वा स्कन्धोपरि यावता प्राप्यते एतावत् तदीयकल्पस्य दैर्घ्यप्रमाणम्, अयं च सन्दंशक उच्यते । तथा तस्यैव कल्पस्य पृथुकर्णी हस्ताभ्यां गृहीत्वा द्वे अपि बाहुशीर्षे यावत् प्राप्यते, तद्यथा दक्षिणेन हस्तेन वामं बाहुशीर्ष वामेन दक्षिणम्, एष द्वयोरपि कलाचिकयोर्हदये यो विन्यासविशेषः स स्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते, एतत् पृथुत्वप्रमाणमवसातव्यम् । “नुवन्ने य” त्ति निपन्नः-त्वग्वति'तस्तद्विषयं स्थविरकल्पिकानामादेशद्वयं तच्चाग्रे वक्ष्यते । जिनकल्पिकश्च यद् वस्त्र 'खण्डितम्' एकस्मात् पार्श्वतश्छिन्नं प्रमाणयुक्तं च यदि च तत् परिभुज्यमानं षण्मासान् यावद् नियते तदी शं ढमिति ज्ञात्वा गृह्णाति, 'इतरद् नाम' षण्मासानपि यावन निर्वाहक्षमं तद् दुर्बलमिति कृत्वा न गृह्णाति ॥ अथ किमर्थमसौ खस्तिकं करोति ? इत्याह
[भा. ३९६८] संडासछिड्डेण हिमादी एति, गुत्ता वडगुत्ता वि य तस्स सेज्जा । हत्येहि सौ सोत्थिकडेहि घेत्तुं वत्यस्स कोणे सुवई व झाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org