________________
४०२
बृहत्कल्प-छेदसूत्रम् -२-३/८८ नान्यदिति। किं पुनस्तल्लक्षणम् ? इत्याह-उपविष्टेष्वश्वेषुद्रुममारुह्य चर्मकुतपस्य पाषाणभृतस्य भूमौ पातनेन भेषणा कर्तव्या,यौ न त्रस्यतस्तौ लक्षणयुक्तौ । ततो भृतिकाले 'द्वयोरपि तयोः' सलक्षणयोरश्चयोरसौग्रहणं करोति। अलंमेपरैरश्चैः, इदमेवाश्वद्वयंसमर्पण' इत्येवम् आश्चिकम् अश्वस्वामिनं भणति । स च स्वभार्यावबोधाय 'वर्द्धकेः' रथकास्य "भञ्चकः' भागिनेयस्तस्य यद् वर्द्धकिना दुहितुः प्रदानं ततः स्वभार्यया प्रेरितेन तेन कृष्णचित्रकाठमानीय यत् कुलको घटितस्तेनोपलक्षितम् 'औपम्यं दृष्टान्तं कृतवान् । एवंगछेऽपिलक्षणयुक्ते नोपधिनाज्ञानादीनां वृद्धिरुपजायते । ततश्च स्थितमेतत्-विधिनैव तथा वस्त्र छेदनीयं यथा प्रमाणयुक्तं भवति ॥
अथ प्रमाणादिस्वरुपनिरुपणाय द्वारगाथामाह[भा.३९६१]दव्वप्पमाण अतिरेग हीन, परिकम्म विभूसणा य मुच्छाय।
उवहिस्स यप्पमाणं, जिन थेर अहकमं वोच्छं।। वृ-इह द्रव्यं-वस्त्र तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तव्यम् । अतिरिक्ते हीने वा वस्त्र दोषा अभिधातव्याः । परिकर्मणं सीवनमित्येकोऽर्थ, तन्निरुपयितव्यम् । “विभूसणाय" त्ति विभूषार्थ यदि वस्त्र क्षालयति वा रजति वा घर्षति वा सम्प्रमार्टि वा तदा प्रायश्चित्तं भवतीति वक्तव्यम् । “मुच्छा य" ति मूर्छया यदि वस्त्र न परिभुते तदाऽपि प्रायश्चित्तं वक्तव्यम् । तत्र प्रथमद्वारे तावदुपधेः प्रमाणं जिनकल्पिक-स्थविरकल्पिकानङ्गीकृत्य यथाक्रममहं वक्ष्ये ॥
प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधिं गणनाप्रमाणतो निरुपयति[भा.३९६२] पत्तं पत्ताबंधो, पायट्ठवणंच पायकेसरिया।
पडलाई रइत्ताणं, च गोच्छओ पायनिजोगो ।। - ‘पात्रं' प्रतिग्रहः, 'पात्रबन्धः' येन वस्त्रखण्डेव चतुरस्त्रण पात्रकंधार्यते, 'पात्रस्थापन' कम्बलमयं यत्र पात्रकं स्थाप्यते, 'पात्रकेसरिका' यया पात्रं प्रत्युपेक्ष्यते, 'पटलकानि' यानि भिक्षांपर्यटभिः पात्रोपरि स्थाप्यन्ते, 'रजस्त्राणं पात्रवेष्टकम्, 'गोच्छकः' कम्बलमयोयः पात्रकोपरि दीयते । एष सप्तविधः 'पात्रनिर्योगः' पात्रपरिकरभूत उपकरणकलाप इत्यर्थः॥ [भा.३९६३] तिनेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती।
एसो दुवालसविहो, उवही जिनकप्पियाणंतु॥ -तथा-'त्रयएव' न चतुः-पञ्चप्रभृतयः, क एते? इत्याह-'प्रच्छादकाः'प्रावरणरुपाः कल्पाः, द्वौ सौत्रिकावेकचोमिय इत्यर्थः । रजोहरणं' प्रतीतम् । 'चः' समुच्चये। एव शब्दः पादपूरणे। 'मुखपोतिका' प्रसिद्धा । एष द्वादशविध उपधिर्जिनकल्पिकानांमन्तव्यः ।तुशब्दो विशेषणे, स चैतद् विशिनष्टि-जिनकल्पिका द्विविधाः-पाणिपात्राः प्रतिग्रहधारिणश्च । पुनरेकैके द्विविधाःअप्रावरणाः सप्रावरणानां तु त्रिविधो वा चतुर्विधो वा पञ्चविधौ वा-तत्र त्रिविधो रजोहरणं मुखवस्त्रिका एकः सौत्रिकः कल्पः, चतुर्विधः स एवौर्णिककल्पसहितः, पञ्चविधश्चतुर्विध एव द्वितीयसीत्रिककल्पेन सहितः। प्रतिग्रहधारिणां प्रावरणवर्जितानां च नवविध उपधि, तद्यथापात्रं १ पात्रकबन्धः २ पात्रस्थापनं ३ पात्रकेसरिका ४ पटकलानि ५ रजस्त्राणं ६ गोच्छकः७ रजोहरणं ८ मुखवस्त्रका ९ चेति । ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पप्रक्षेपे शविधः, कल्पद्वयप्रक्षेपे एकादशभेदः, कल्पत्रयप्रक्षेपे तुद्वादशविधः । तदेवमुत्कर्षतो जिनFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International