SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् - १ केवलं यद् अनुपयुक्तस्याचार्यस्य कथनम् अथवा परः श्रोता अपात्रं तद् आसाद्य गुणा अपि सर्पमुखे प्रविष्टं दुगधमिव दोषीभवन्ति ।। सम्प्रति हंस दृष्टान्तभावनामाहअंबत्तणेन जीहाइ कूइया होई खीरमुदगम्मि । हंसो मोत्तूण जलं, आपियइ पयं तह सुसीसो ॥ [भा. ३४७] ९० वृ- परिपूणकप्रतिपक्षो हंसः । तथाहि हंसस्य जिह्वा अम्ला, ततो जिह्वाया अम्लत्वेन तत्सम्पर्कतः क्षीरमुदते कूचिका भवन्ति, ततो जलं मुक्त्वा यत् 'पयः' क्षीरं कूचिकाभूतं तद् आपिबति । एवं यो गुणान् गृह्णाति दोषान् त्यजति तस्य हंससमानस्य दातव्यम् ॥ महिषध्ष्टान्तमाह [भा. ३४८]सयमवि न पियइ महिसो, न य जूहं पिबइ लोलियं उदयं । विग्गह-विकहाहि तहा, अथक्क पुच्छाहि य कुसीसो ॥ वृ-यथा महिषस्तृषापीडितः पानीयं पास्यामीति बुध्या कञ्चिद् हदमवतीर्णः । स प्रथममेव प्रविष्टः सन् सर्वमुदकं लोलयति-कलुषयति तावद् यावत् कर्दमीभवति । तच्च तथाकर्दमीभूतं नात्मना पिबति नापि यूथं पिबति । एवं यः शिष्यः प्रारब्धे व्याख्याने विग्रहेण यथा अमुको भिक्षायां न गच्छति अमुक एतादृशस्ताध्श इति विकथाभिर्नानाप्रकाराभि यदि वा 'अथक्क पृच्छाभि' अप्रस्तावपृच्छाभिराचार्यं तथा परिश्रमयति यथा न तस्य कथयति नाप्यन्यस्य गणस्य स एष कुशिष्यस्तस्मै न कथनीयम् ।। यस्तु महिषसध्शप्रतिपक्षो मेषसदृशस्तस्मै कथनीयम् । तथा चाह[भा. ३४९] अवि गोपयम्मि वि पिबे, सुढिओ तनुयत्तणेण तुंडस्स । न करेइ कलुस तोयं, मेसो एवं सुसीसो वि ।। वृ- 'मेषः ' एडकः सः 'अपि' सम्भावनायां गोष्पदेऽपि 'तोयं' पानीयं जानुभ्यामधो निपत्य "सुढिओ "त्ति सुष्ठाहतो भूत्वा 'तुण्डस्य' वदनस्य तनुत्वेन पिबति, न च तथा पिबन् तत् तोयं कलुषं करोति । एवं यः सुशिष्य आचार्यमनुत्तेजयन् गृह्णाति स मेषसद्दश इति तस्मै दातव्यम् ॥ सम्प्रति मसकदृष्टान्तमाह [ भा. ३५० /१] मसगो व्व तुदं जच्चाइएहि निच्छुटभई कुसीसो वि । वृ-यथा मसगो लगन्नेव दुःखापयति, ततः पञ्चादुड्डाप्यते । एवंयः शिष्यो जात्यादिभिस्तुदतिहीलयति स तुदन् निष्काश्यते, ताध्शस्य दानेऽसङ्खडादिदोषप्रसङ्गात् । [भा. ३५०/२] जलुगा व अदूमिंतो, पियइ सुसीसो वि सुयनाणं ।। वृ-मसकप्रतिपक्षो जलौका, यथा सा शरीरे लग्ना अदुःखापयन्ती रुधिरमापिबति, उकतञ्चदंसो तिक्खनिवारण, अफअफणो वहमिच्छाई । जलुगा वि तदेवत्थं, मद्दवेणोपसप्पई || एवं यः शिष्य आचार्यम् 'अदूनयन्' अदुःखापयन् श्रुतज्ञानमापिबति तस्मिन् सुशिष्ये दातव्यम् ॥ अधुना बिडालीष्टान्तमाह [भा. ३५१] छड्डेउं भूमीए, खीरं किल पिवइ मुद्ध मज्जारी । । परिसुट्ठियाण पासे, सिक्खइ एवं विनयभंसी || वृ- 'मुग्घा' अपण्डिता मार्जारी किल क्षीरं भूमौ छर्दयित्वा पिबति । एवं यो गौरवमात्मनो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy