________________
पीठिका - [भा. ३४२]
यत् क्षिप्यते तत् सर्वं तिष्ठति । एवं शिष्या अपि चत्वार भवन्ति, तद्यथा-छिद्रकुटसमानः खण्डकुटसमानो भिन्नकुटसमानः सकलकुटसमानश्च । एतेभावकुटाः । छिद्रकुटसमानो यावत् कथयते तावत् स्मरति, उत्थितः किमपि न स्मरति।खण्डकुटसमान ऊनंगृह्णाति।भिन्नकुटसमानः स्तोकम् । सकलकुटसमानः समस्तम् । तथा चास्या एव गाथाया इयं व्याख्यानभूता गाथा
जे पुन अभाविया ते, वि गज्झ चउहा कुडा व होतऽन्ने ।
छिड्डकुड बोड खंडे, सगले य परूवणा तेसि ।। ततो नाधिकृतव्याख्यानविरोधः । एतेषां सकलकुटसदृशं वर्जयित्वा शेषाणां ये मुद्गशैलसमानस्य दोषास्ते द्रष्टव्याः । सकलकुटसमानस्य त्वव्यवच्छित्तिकारित्वात् कथनीयम्।। सम्प्रति चालनीदृष्टान्तो यथा-चालिन्यामुदकं प्रक्षिप्यमाणमेवाधस्तादपगच्छति । एवं यस्यैकेन कर्णेन प्रविशति द्वितीयेन निर्गच्छति स चालनीसमानस्तस्यापि न कथनीयम्, मुद्गशैलस्येवानेकदोषप्रसङ्गात् ॥ [भा.३४३] सेले य छिद्द चालिणि, मिहो कहा सोउ उहियाणंतु।
छिड्डाऽऽह तत्थ विठ्ठो, सरिंसु सुमरामि नेयाणि ।। वृ-तेषांमुद्गशैल-च्छिद्रकुटःचालनीसमानानां शिष्याणां व्याख्यां श्रुत्वोत्थितानामेवंरूपा मिथः कथानावर्त्तत-कथयत आर्या ! केन किमवधारितम् ? । तत्रच्छिद्रकुटसमानो ब्रूते-यावत् तत्र मण्डल्यामुपविष्ट आसीत् (आस) तावत् स्मृतवान्, उत्थितस्य सर्वं विस्मृतम् ।। [भा.३४४] एगेण विसइ बीएण नीइ कनेण चालिणी आह ।
धन्न त्य आह सेलो, जं पविसइ नीइ वा तुझं ।। कृचालनीसमानआह-ममैकेन कर्णेन विशति' प्रविशति द्वितीयेन निर्गच्छति। शैलसमानः प्राह-धन्याः स्थ यूयम् यद् युष्माकं कर्णेषु प्रविशति निर्गच्छति च, मम तुमन्दभागस्य मूलत एव न प्रविशति ।।चालनीप्रतिपक्षस्य कथयितव्यम्, यत आह
[भा.३४५/१]तावसखउरकविणयं, चालणिपडिवक्खु न सवइ दवंपि।
वृ-चालिन्याः प्रतिपक्षस्तापसस्य भाजनंखउरम्, बिल्वरस-भल्लातकरसाभ्यां लिप्तत्वात् 'कठिनम्' अतिशयेन घनं तद् ‘द्रवमपि' पानीयमपि, आस्तामन्यदित्यपिशब्दार्थ, न श्रवति, ताशस्याव्यवच्छित्तिकारित्वाद् दातव्यम् ॥अधुना परिपूणकदृष्टान्तः
[भा.३४५/२] परिपूणगं पिव गुणा, गलंति दोसा य चिट्ठति ।।
वृ-परिपूणको नाम येन घृतपूर्णयोग्यं पानं गाल्यते, तत्र सारो गलति कल्पषं तिष्ठति, एवं यस्य गुणा गलन्ति दोषास्तिष्ठन्ति स परिपूणकसमानः, तस्मिन्न कथनीयम्, शैलसमानोक्तदोषप्रसङ्गात्।।आह किं भट्टारकवचनेऽपि दोषाः सन्ति येनोच्यते 'दोषस्तिष्ठन्ति' इति? तत्राह[मा.३४६] सव्वन्नुप्पामना, दोसा उन हुंति जिनमये के वि।
जं अनुवउत्तकहणं, अपत्तमासज्ज व हवंति ।। वृ-सर्वज्ञप्रामाण्यान केचिद् जिनमते दोषा विद्यन्ते । उक्तञ्च
वीतरागा हि सर्वज्ञाः, न मिथ्या ब्रुवते वचः । यस्मात् तस्माद् वचस्तेषां, तथ्यं भूतार्थदर्शनम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org