________________
बृहत्कल्प-छेदसूत्रम् -१गहण-धरणासमत्थे, इय देयमछित्तिकारिम्मि ।। वृ-कृष्णभूमेप्रदेशे द्रोणमेघेऽपिवृष्टे यद् यत्र पतत्युदकंतत्तथैव प्रविशति, न पुनस्तस्मात् कृष्णभूमादन्यत्र लोटते। 'इति' एवं ग्रहण-धारणासमर्थे अयवच्छित्तिकारिणि देयं सूत्रम् ।।
अधुना कुटद्वारमाह[भा.३३९]भाविय इयरे य कुडा, पसत्थ-अपसत्थभाविया दुविहा ।
पुप्फाईहि पसत्था, सुर-तिल्लाईहि अपसत्था ।। वृ-'कुटाः' घटाः । ते द्विधा-भाविता इतरे च | तत्र ये भावितास्ते द्विधा-प्रशस्तभाविता अप्रशस्तभाविताश्च । तत्र ये पुष्पादिभिर्भावितास्ते प्रशस्तभाविताः । सुरा-तैलादिभिर्भाविताः 'अप्रशस्ताः' अप्रशस्तभाविताः । पुष्पादिभिरित्यत्राऽऽदिग्रहणात् कर्पूरादिपरिग्रहः । सुरातैलादिभिरित्यत्र वशादिग्रहणम्॥ {भा.३४०] वम्मा य अवम्मा वि य, पसस्थवम्मा य हुंति अग्गिज्झा ।
अपसत्थअवम्मा विय, तप्पडिवक्खा भवे गिज्झा।। वृ-तत्रयेप्रशस्तभावितास्ते द्विविधाः-वाम्याअवाम्याश्च। वाम्या नाम येतंभावंच्यावयितुं शक्याः, इतरे अवाम्याः।येऽप्यप्रशस्तभावितास्तेऽपि द्विधा-वाम्या अवाम्याश्च । तत्र ये प्रशस्तभाविता वाम्या ये चाप्रशस्तभाविता अवाम्यास्तेऽग्राह्याः । ये तु 'तप्रतिपक्षाः' प्रशस्तभाविता अवाम्या ये चाप्रशस्तभाविता वाम्यास्ते ग्राह्याः । एते द्रव्यकुटाः । एवं भावकुटाः शिष्या अपि परिभावनीयाः ॥ तथा चाह[भा.३४१] कुप्पवयण-ओसन्नेहि भाविया एवमेव भावकुडा।
संदिग्गेह पसत्था, वम्माऽवम्मा य तह चेव ।। वृ-'एवमेव' अनेनैव द्रव्यकुटदृष्टान्तप्रकारेण भावकुटा अपि द्रष्टव्याः। तद्यथा-भाविता अभाविताश्च तत्र भाविता द्विविधाः-प्रशस्तभविता अप्रशस्तभाविताश्च।तत्रये कुप्रवचनैरवसत्रैश्च भावितास्तेऽप्रशस्तभाविताः,ये संविग्नै वितास्ते प्रशस्ताः'प्रशस्तभाविताः । एकैके द्विविधाःवाम्या अवाम्याश्च । तत्र ये प्रशस्तभाविता वाम्या ये चाप्रशस्तभाविता अवाम्या एते अग्राह्याः। ये च प्रशस्तभाविता अवाम्या ये चाप्रशस्तभाविता वाम्या एते द्वयेऽपि ग्राह्याः । ये अवाम्यास्ते सुचिरेणापि कालेन तंभावंन परित्यज्ति, ततः पश्चात्तेनिश्रापदं लब्ध्वा पापपराजायन्ते । ग्राह्या नाम कथनयोग्याः, अग्राह्या अकथनीयशास्त्राः [भा.३४२] जे पुन अभाविया ते, चउब्विहा अहविमो गमो अन्नो ।
छिड्डकुड खड बोडे, सगले य परूवणा तेसि ।। कृयेपुनस्तैलादिभिरमावितास्ते निर्विवादपरिग्राह्याः एतदेकेषामाचार्याणांततेनभणितम्। अथवाऽयमन्यो गमः, किमुक्तं भवति? अन्ये आचार्या यदा कुटद्वारं प्राप्तं भवति तदा ते एवं प्ररूपयन्ति-द्विविधाः कुटा:-द्रव्यकुटा भावकुटाश्च । द्रव्यकटाश्चतुर्विधाः, तद्यथा-छिद्रकुटः खण्डकुटो बोडकुटः सकलकुटः । तेषां' चतुर्णामपि प्ररूपणा कर्तव्या, सा चैवम्-छिद्रकुटो नाम यस्याधश्छिद्रम्, तत्र यत् प्रक्षिप्यते तत् सर्वं गलति । खण्डकुटो नाम यस्य कर्णौ बोटौ, स पानीयमूनं गृह्णाति ।बोटकुटोयस्यैकपार्वेकपालभेदः, तत्रस्तोकंतिष्ठति।सकलोनाम सम्पूर्णस्तत्तर
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only