________________
बृहत्कल्प - छेदसूत्रम् -२-३/८८ मदुक्तादुपदेशादन्यथा चेत् करोषि ततस्ते 'प्रतिज्ञाहानि' स्ववचनविरोधलक्षणं दूषणमापद्यते इत्यर्थः ॥ अथ ब्रीवीथाः योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरम्भप्रतिषेधकत्वान्निर्दोष इति अत्रोच्यते-.
[भा. ३९२८] अदोसवं ते जति सद्दो, अन्नो वि कम्हा न भेव अदोसो । अधिच्छया तुज्झ सदोस एक्को, एवं सती कस्स भवे न सिद्धी ।।
वृ- यद्येष त्वदीयः शब्दोऽदोषवान् ततः 'अन्योऽपि' वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ? तस्यापि प्रमाणातिरिक्तपरिभोग-विभूषादिदोषपरिहारहेतुत्वात् । अथ 'इच्छया' स्वाभिप्रायेण तव 'एकः' वस्त्रच्छेदनशब्दः सदोषः अपरस्तु निर्दोषः एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् ? सर्वस्यापि वागाडम्बरमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ततश्चास्माभिरप्येवं वक्तु शक्यम्-योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः शब्दत्वात्, भवत्परिकल्पितनिर्दोषशब्दवदिति । किञ्च
३९४
[भा. ३९२९] तं छिंदओ होज्ज सतिं तु दोसो, खोभादि तं चैव जतो करेति । जं पेहतो होंति दिने दिने तु, संपाउणंते य निबुज्झ ते वी ॥
वृ-यतः 'तदेव' वस्त्र छिद्यमानं पुद्गलानां क्षोभादि करोति अतः 'तद्' वस्त्र छिन्दतः 'सकृद्' एकवारं दोषो भवेत् । अच्छिद्यमाने तु वस्त्र प्रमाणातिरिक्तं तत् प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः प्रत्युपेक्षणादोषा दिने दिने भवन्ति ये च तद् वस्त्र सम्प्रावृण्वतो विभूषादयो बहवो दोषाः, तानपि 'निबुध्यस्व' अक्षिणी निमील्य सम्यग् निरुपयेति भावः । आह-यदि वस्त्रच्छेदने युष्मन्मतेनापि सकृद् दोषः सम्भवति ततः परिहियतामसी, गृहस्थैः स्वयोगेनैव यद् भिन्नं वस्त्रं तदेव गृह्यताम्, उच्यते
[भा.३९३०]घेत्तव्वगं भिन्नमहिच्छितं ते, जा मग्गते हानि सुतादि ताव ।
अप्पेस दोसो गुणभूतिजुत्तो, पमाणमेवं तु जतो कर्हिति ॥
वृ- अथ 'ते' तव 'इष्टं' मतं यथा चिरमपि गवेष्य भिन्नं ग्रहीतव्यम् तत उच्यते-यावत तद् भिन्नं वस्त्रं मार्गयति तावत् तस्य 'श्रुतादौ' सूत्रा - ऽर्थपौरुप्यादी हानिर्भवति । अपि च य एष वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणाशुद्धि-विभूषापरिहारप्रभृतीनां गुणानां भूत्या- सम्पदा युक्तः, बहुगुणकलित इति भावः । कुतः ? इत्याह-यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति, न पुनस्तत्राधिकं किमपि सूत्रा ऽर्थव्याधातादिकं दूषणमस्तीति ॥
अथ "जा यावि चिट्ठा इरियाइयाओ" इत्यादि परोक्तं परिहरन्नाह-
[भा. ३९३१] आहार- नीहारविहीसु जोगो, सव्वो अदोसाय जहा जतस्स । हियाय सस्सम्मि व सस्सियस्स, भंडस्स एवं परिकम्मणं तु ॥
वृ- यथा 'यतस्य' प्रयत्नपरस्य साधोराहार - नीहारादिविधिषयः सर्वोऽपि योगो भवन्मतेनाष्यदोषाय भवति तथा 'भाण्डस्य' उपकरणस्य ‘परिकर्मणमपि' छेदनादिकम् 'एवमेव' यतनया क्रियमाणं निर्दोष द्रष्टव्यम् । दृष्टान्तमाह- “हियाय सस्सम्मि व सस्सियस्स" त्ति सस्येन चरतीति सास्यिकः - कृपीवलस्तस्य यथा सस्यविषयं परिकर्मणं निद्दिणनादिकं हिताय भवति तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org