________________
उद्देशक : ३, मूलं - ८८, [भा. ३९३१]
यद्वत् सस्यहितार्थं, सस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति सस्यपीडा, यनवतः साऽल्पदोषाय ॥ तद्वज्जीवहितार्थं, जीवाकीर्णेऽपि विचरतो लोके । या भवति, जीवपीडा, यत्नवतः साऽल्पदोषाय ।। [भा. ३९३२] अप्पेव सिद्धंतमजाणमाणो, तं हिंसगं भाससि जोगवंतं । दव्वेण भावेण य संविभत्ता, चत्तारि भंगा खलु हिंसगत्ते ॥
यृ- 'अपि' इत्यब्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः, यदेवं 'योगदन्तं' वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे तद् निश्चीयते सम्यक् सिद्धान्तमजानान एवं प्रलपसि । नहि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररुप्यते ? इत्याह- द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वं भवन्ति । तथाहि द्रव्यतो नामैका हिंसा न भावतः १ भावतो नामैका हिंसा न द्रव्यतः २ एका द्रव्यतोऽपि भावतोऽपि ३ एका न द्रव्यतो नापि भावतः ४ ॥
अथैषामेव यथाक्रमं भावतां कुर्वन्नाह
[भा. ३९३३ ] आहच हिंसा समितस्स जा तू, सा दव्वतो होति न भावतो उ । भावेन हिंसा तु असंजतस्सा, जे वा वि सत्ते दव्वतो होति न भावतो उ ॥ [भा. ३९३४] संपत्ति तस्सेव जदा भविज्जा, सा दव्वहिंसा खलु भावतो य । अज्झत्थसुद्धस्स जदा न होज्जा, वधेन जोगो दुहतो वऽहिंसा ।।
वृ- 'समितस्य' ईर्यासमितावुपयुक्तस्य या “आहञ्च" कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात् तत्त्वतोऽहिंसैव मन्तव्या, “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति वचनात् न भावत इति । 'भावेन' भावतो या हिंसा न तु द्रव्यतः सा 'असंयतस्य' प्राणातिपातादेरनिवृत्तस्य उपलक्षणत्वात् संयतस्य वा अनुपयुक्तगमना ऽऽगमनादि कुर्वती यानपि सत्त्वानसौ सदैव न हन्ति तानप्याश्चित्य मन्तव्या, “जे वि न वाविनंती, नियमा तेसि पि हिंसओ सो उ" इति वचनात् ॥ यदा तु तस्यैव प्राणिव्यपरोपणसम्प्राप्तिर्भवति तदा सा द्रव्यतो भावतोऽपि हिंसा प्रतिपत्तव्या । यः पुनरध्यात्मना चेतः प्रणिधानेन शुद्धः - उपयुक्तगमना -ऽऽगमनादिक्रियाकारीत्यर्थः तस्य यदा 'वर्धन' प्राणिव्यपरोपणेन सह 'योगः' सम्बन्धोन न भवति तदा 'द्विधाऽपि ' द्रव्यतो भावतोऽपि च अहिंसा, हिंसा न भवतीति भावः । तदेवं भगवाणीते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चाद्यभङ्गे हिंसायां व्याप्रियमाणकाययोगोऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः । ततो यदुक्तं भवता- 'वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत् प्रवचनरहस्यानभिज्ञतासूचकमिति । किञ्च
[भा. ३९३५] रागो य दोसो य तहेव मोहो, ते बंधहेतू तु तओ वि जाणे । नाणत्तगं तेसि जधा य होति, जाणाहि बंधस्स तहा विसेसं ॥
३९५
बृ- 'रागश्च' अभिष्वङ्गलक्षणः 'द्वेषश्च' अप्रीतिकरूपः तथैव 'मोहः' अज्ञानलक्षणः, एतान् त्रीनपि बन्धहेतून् जानीहि । 'नानात्वं' विशेषो यथा 'तेषां' रागादीनां भवति तथा कर्मबन्धस्यापि विशेषं जानीहि ।। इदमेव विभावयिषुर्द्वारगाथामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org