________________
३९३
उद्देशक : ३, मूलं-८८, [भा. ३९२३]
-अथ आचार्य! त्वम् इच्छसि' मन्यसे 'तेच वस्त्रच्छेदनसमुस्थाः शब्द-पक्ष्म-वातादिपुद्गला न 'दूर' लोकान्तं यान्ति तर्हि तैः 'संक्षोभिताः' चालिताः सन्तोऽपरे व्रजन्ति, एवमपराऽपरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्द्धमधस्तिर्यक्चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति।।
यत एवमतः-- [भा.३९२४] विनाय आरंभमिणं सदोसं, तम्हा जहालद्धमधिद्विहिज्जा ।
वुत्तं सएयो खलु जाव देही, न होति सो अंतकरी तु वाव ।। वृ-'इमम्' अनन्तरोक्तं सर्वलोकपुरणात्मकमारम्भं 'सदोषं सूक्ष्मजीवविराधनया सावा विज्ञाय तस्मात्' कारणाद् यथालब्धं वस्त्रमधितिष्ठेत्, न छेदनादिकं कुर्यात् । यतः “उक्त' भणितं व्याख्याप्रज्ञप्तौ-यावदयं 'देही जीवः 'सैजः' सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति। तथा च तदालापकः-जाव नं एसजीवे सया समियं एयइ वेयइ चलइ फंदह घट्टइ खुङभइ उदीरइ तं तं भावं परिणमइ तावनं तस्स जीवस्स अंते अंतकिरिया न भवति । अथेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेया इति, नैवम्, यतः[भा.३९२५]जा यावि विट्ठा इरियाइआओ, संपस्सहेताहिं विना न देहो।
संचिट्ठए नेवमछिज्जमाणे, वस्यम्मि संजायइ देहनासो।। वृ-याश्चापि चेष्टाईर्यादिकाः सम्पश्यत, तोरणमीर्या-भिक्षा-संज्ञाभूम्यादौगमनम्, आदिशब्दाद् भोजन-शयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् 'न सन्तिष्ठते' ननिर्वहति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति, वस्त्र पुनरच्छिद्यमाने नैवं देहनाशः सज्जायते, अतो न तत् छेदनीयम् ।। किञ्च[भा.३९२६] जहा जहा अप्पतरो से जोगो, तहा तहा अप्पतरो से बंधो।
निरुद्धजोगिस्स व से न होति, अछिद्दपोतस्स व अंबुनाधे ॥ वृ-यथा यथा “से" रास्य जीवस्याल्पतरो योगस्तथा तथा "से" तस्याल्पतरो बन्धो भवति, यो वा निरुद्धयोगी-शैलेश्यवस्थायां सर्वथा मनो-वाक्कायव्यापारविरहति तस्य सः' कर्मबन्धोन भवति । दृष्टान्तमाह-अच्छिद्रपोतस्येव 'अम्बुनाथे' समुद्रे । यथा किल निश्छिद्रप्रवहणं सलिलसञ्चयसम्पूर्णऽपि जलधौ वर्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्गलैरञ्जन चूर्णसमुद्गकव निरन्तरनिचितेऽपि लोके वर्तमानः स्वल्पीयोऽपि कर्म नोपादत्ते । अतः कर्मबन्धस्य योगान्वय-व्यतिरेकानुविधायितया तत्वरिजिहीर्षुणा वस्त्रच्छेदनादिव्यापारो न विधेयः ।। इत्यथं परेण स्वपक्षे स्थापिते सति सूरिराह[भा.३९२७]आरंभमिट्टो जति आसवाय, गुत्तीय सेआय तधा तु साधू! ।
मा फंद वारेहि व छिज्जमाणं, पतित्रहाणी व अतोऽनहा ते॥ “आरंभमिट्ठो"त्तिमकारोऽलाभणिकः, हेनोदक! यद्यारम्भस्तव आश्रवाय' कर्मोपादानाय 'इष्टः' अभिप्रतेः 'गुप्तिश्च तत्परिहाररुपा श्रेयसे' कर्मानुपादानायामिप्रेता, तथा च सति हे साधो! मा स्पन्द मा वा वस्त्र छिद्यमानं वारय । किमुक्तं भवति? -यदि वस्त्रच्छेदनमारम्मतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाया हस्तस्पन्दनादिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्तव्यौ । 'अतः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org