________________
३९२
बृहत्कल्प-छेदसूत्रम् - २-३/८८
दव्वई अविसिद्धं, कसिणग्गहणेण होइ गहियं तु । गहन अभिन्नस्स उ, सगलग्गहणं कयं होइ ॥
एव द्वितीयभङ्गे द्रव्य क्षेत्रादिकृत्स्नमसकलं गृहीतम् । तृतीयभङ्गे तु क्षेत्र - काल- भावैरकृत्स्नं परं सकलम् । चतुर्थभङ्गे क्षेत्रादिभिरकृत्स्नमसकलम् ।। अत्र विधिमतिदिशन्नाह[भा. ३९१९] तम्मि वि सो चेव गमो, उस्सग्ग-ऽववादतो जहा कसिणे । भिन्नग्गहणं तम्हा, असती य सयं पि भिंदिज्जा ।।
वृ- 'तस्मिन्नपि' अभिन्ने स एव उत्सर्गतोऽपवादंतश्च 'गमः' प्रकारो यथा कृत्स्ने भणितः । तथाहि कृत्स्नवद् द्रव्या (द्य] भिन्नमपि चतुर्धा, तत्र द्रव्याभिन्नं गणनया प्रमाणश्चातिरिक्तम्, क्षेत्राभिन्नं यद् यस्मिन् क्षेत्रे महार्घ्यम्, कालाभिन्नं यद् यस्मिन् कालेऽर्चितम् भावाभिन्नं तथैव वर्णयुतं मूल्ययुतं च; या च कृत्स्ने आरोपणा सैवाभिन्नेऽपि द्रष्टव्या, परमिदं चतुर्ष्वपि द्रव्यादिषु सकलमेव प्रतिपत्तव्यम् । यत एवं तस्माद् भिन्नस्य वस्त्रस्य ग्रहणं कर्त्तव्यम् । अथ भिन्नं न प्राप्यते ततः स्वयमपि भिन्द्यात्, यावता प्रमाणेनातिरिक्तं तावत् छित्त्वा प्रमाणयुक्तं कुर्यादिति भाव ।। परः प्राह-यदि पूर्वसूत्रोक्त एव गम इहापि सूत्रे वक्तव्यः ततःपुनरुत्तदोसो एवं, पिट्ठस्स व पीसणं निरत्थं तु । कारणमवेक्खति सुतं, दुविहपमाणं इहं सुत्ते ॥
[भा. ३९२०]
वृ-पुनरुक्तदोष एवं प्राप्नोति एतच्च पुनर्भणनं पिष्टस्येव पेषणं 'निरर्थक' परिफल्गुप्रायमेव पश्यामः, अतो नेदं सूत्रमारम्भणीयमिति भावः । सूरिराह-सूत्रमिदं कारणमपेक्षते । किं पुनस्तत् कारणम् ? इत्याह- इह सूत्रे वस्त्रणां 'द्विविधप्रमाणं' गणनालक्षणं १ प्रमाणलक्षणं २ नियम्यते, कियन्ति किंप्रमाणानि वा तानि ग्रहीतव्यानि ? इत्येवं निरूप्यत इत्यर्थः ॥
[भा. ३९२१]
तुम्हा उ भिंदियव्वं, केई पम्हेहि अह व तह चेव ।
लोगंते पाणादीविराधना तेसि पडिघातो ।।
वृ-यस्मादभिन्नस्य धारणे पूर्वसूत्रोक्ता दोषास्तस्मात् प्रमाणातिरिक्तं वस्त्र 'भेत्तव्यं' छेदनीयम्, न तदवस्थं धारयितव्यम् । अथवाऽत्र 'केचिद्' नोदकाः प्रेरयन्ति वस्त्र छिद्यमाने यानि पक्ष्माण्युड्डयन्ते तैर्लोकान्तं यावद् गच्छद्भिर्बहूनां प्राणादीनां त्रसप्राणिप्रभृतीनां सूक्ष्मजन्तूनां विराधना भवति, अतः “तह चेव" त्ति यथा लब्धं तथैवाधितिष्ठेत् । एवं वदतां 'तेषां ' नोदकानां 'प्रतिघातः' निराकरणं विधेयमिति पुरातनगाथासमासार्थः ॥
अथैनामेव विवरीषुः परप्रेर्यमेव प्रयञ्चयन्नाह
[ भा. ३९२२ ] सद्दो तहिं मुच्छति छेदणा वा, धावंति ते दो वि उ जाव लोगो । वत्थस्स देहस्स य जो विकंपो, ततो वि वादादि भरिति लोगं ॥
वृ- भो आचार्य ! 'तत्र' वस्त्र छिद्यमाने शब्दः सम्मूर्छति, 'छेदनका वा' सूक्ष्मपक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि ततो निर्गता लोकान्तं यावद् 'धावन्ति' प्राप्नुवन्ति । तथा वस्यस्य देहस्य च यः ‘विकम्पः’ चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति ।।
[भा. ३९२३] अहिच्छसे जंति न ते उ दूरं, संखोभिया तेहऽवरे वयंति । उडुं अधे यावि चउद्दिसिं पि, पूरिति लोगं तु खणेण सव्वं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org