________________
उद्देशक : ३, मूलं-८७, [भा. ३९१३] यद् वस्त्र तद्वान् सिन्धुसौवीरकादिषु गर्हितो भवति, अतस्तत्र कृत्स्नान्यपि परिभोक्तव्यानि ।।
अथ कालकृत्स्नमपवदति[भा.३९१४] नीलकंबलमादी तु, उन्नियं होति अच्चियं ।
सिसिरे तं पिधारेज्जा, सीतं नऽन्नेण रुमति ।। -नीलकम्बलादिकमौणिकंमहाराष्ट्रविषये अर्चित महाध्रयं भवति, तदपितत्र प्राप्तः शिशिरे' शीतकाले 'धारयेत् प्रावृणुयादित्यर्थः, शीतं यतो नान्येन वस्त्रण निरुध्यते ॥
अथ तद्भावितपदं व्याख्याति[भा.३९१५] न लभइ खरेर्हि निई, अरत्तिं च करिति से दिवसतो वि ।
उज्झाइगंव मन्नति, थूलेर्हि अभावितो जाव ।। वृ- ‘स्वरैः' स्थूलतया कठिनस्पश्चिीवरै राजादिप्रब्रजितः कश्चिद् निद्रां न लभते, तानि च तस्य दिवसतोऽप्यरतिं कुर्वन्ति, "उज्झाइयं वा" जुगुप्सां मन्यते तैः, ततः स्थूलैर्यावदद्याप्यभावितस्तावत् तस्य भावकृत्स्नवस्त्रमनुज्ञातम् ।। 'अवमादिषु गच्छोपग्रहार्थम्' इति भावयति[भा.३९१६] ओमा-ऽसिव-दुढेसू, सीमढेऊण तं असंथरणे |
गच्छो नित्थारिजति, जाव पुनो होति संथरणं॥ -अवमौदर्या-ऽशिव-राजद्विष्टेषुभुक्त-पानालाभेगच्छस्यासंस्तरणंभवेत्, ततः शतसहस्त्रमूल्यं वस्त्र "सीमढेऊण" तिचूर्णिकारवचनाद् विक्रीय गच्छो निस्तार्यते यावत् पुनरपि संस्तरण भवति । विशेषचूर्णी तु-"सीमढेऊण" इत्यस्य स्थाने "उवक्कमट्ठा व" ति पाठः, तत्रोपक्रमःकालगमनं तदर्थम् । किमुक्तं भवति? कस्यापि साधोरतार्कितं कालगमनं भवेत् तस्याच्छादनार्थं 'भावकृत्स्नं वर्णाढयं वस्त्र प्रागेव ग्रहीतव्यम् ।। अथवा द्रव्यकृत्स्नं भावकृत्स्नं चेति द्विविधमेवेह कृत्स्नम् । कथम् ? इति चेद् उच्यते[भा.३९१७] मानाहियं दसाधिय, एताइ पडंति दब्बकसिणम्मि ।
तस्सेव य जो वन्नो, मुलुंच गुणो यतं भावे ।। इ-क्षेत्रकृत्स्ने कालकृस्ने च यद् ‘मानाधिकं यथोक्तप्रमाणातिरिक्तम्, यच्च ‘दशाधिक' सदशाकं वस्त्रम्, एते द्वे अपि द्रव्यकृत्स्ने निपततः । यस्तुतस्यैव वस्त्रस्य 'वर्ण' कृष्णत्वादिकः, यच्च 'मूल्यम्' अष्टादशरुपकादि, यश्च ‘गुणः' मृदुत्वादि, तदेतत्सर्वमपि भावकृत्स्नेऽवतरति ॥
मू. (८८) नो कप्पइ निग्गंथाण वा निग्गंथीण वा अभिन्नाइं वत्याइंधारित्तए वा परिहरित्तए वा कप्पइ निग्गंथाणं वा निग्गंधीण वा मित्राइं वन्याइंधारित्तएवा परिहरित्तएवा ।।
वृ-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'अभिन्नानि' अच्छिन्नानि वस्त्रणि धारयितुं वा परिहर्तुं वेति ॥अथ भाष्यम्[भा.३९१८] अकसिण भिन्नमभिन्नं, होज भिन्नं तु अकसिणे भइतं ।
__कसिणा-ऽकसिणे य तदा, भिन्नमभिन्ने य चउभंगो ।। वृ- यत् पूर्वसूत्रेऽक-स्नमुक्तं तद् भिन्नं वा स्याद् अभिनं वा । भिन्नमपि अकृत्स्ने 'भक्त' • विकल्पितम्, अकृत्स्नंवा कृत्स्नंवा भवतीत्यर्थः ।अत एव कृत्स्ना-ऽकृत्स्नपदेन द्रव्य-क्षेत्राद्यविशिष्टं सामान्यतः कृत्स्नं गृहीतम्, अभिन्नपदेन तु सकलम् । आह च बृहद्भाष्यकृत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org