SearchBrowseAboutContactDonate
Page Preview
Page 922
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं - ८७, [भा. ३८९१] भवति ।। अथवा- मा. (३८९२ ] दो दक्खिणावहा तु, कंचीए नेलओ स दुगुणो य । एगो कुसुर्मनगरगो, तेन पमाणं इमं होति ॥ वृ-दक्षिणापथी द्वी रूपकौ काञ्चीपुर्या द्रविडविषयप्रतिबद्धाया एकः 'नेलकः' रूपको भवति । 'सः' काञ्चीपुरीरूपको द्विगुणितः सन् कुसुमनगरसत्क एको रूपको भवति । कुसुमपुरं पाटलिपुत्रमभिधीयते । 'तेन च' रूपकेणेदमनन्तरोक्तमष्टादशकादिप्रमाणं प्रतिपत्तव्यं भवति ।। अथ मूल्यवृध्या प्रायश्चित्तवृद्धिमुपदर्शयति [मा. ३८९३] अट्ठारस वीसा या, अगुणापन्ना य पंच य सयाई । एगूनगं सहस्सं, दस पन्नासं सतसहस्सं । [भा. ३८९४] चत्तारि छत्र लहु गुरु, छेदी मूलं च होइ बोद्धव्वं । अवटुप्पो यतहा, पाति पारंचियं ठाणं ॥ ३८७ वृ- अष्टादशरूपकमूल्यं वस्त्र गृह्णाति चत्वारो लघवः । विंशतिरूपकमूल्ये चत्वारो गुरवः । एकोनपञ्चाशन्मूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । एकोनसहस्रमूल्ये छेदः । दशसहस्रमूल्ये मूलम् । पञ्चाशत्सहस्रमूल्येऽनवस्थाप्यम् । शतसहनमूल्ये पाराचिकं स्थानं प्राप्नोति ॥ प्रकारान्तरेणात्रैव प्रायश्चित्तमाह [भा. ३८९५] अट्ठारस वीसा या, सयमड्डाइज पंच य सयाई । सहसं च दससहस्सा, पन्नास तथा सतसहस्सं ॥ [मा. ३८९६ ] लहुगो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा थ। छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ वृ- अष्टादशरूपकमूल्ये वस्त्र गृह्यमाणे लघुमासः । विंशतिमूल्ये चतुर्लघवः । शतमूल्ये चतुर्गुरवः । अर्धतृतीय शतमूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । सहस्रमूल्ये छेदः । दशसहस्रमूल्ये मूलम्। पञ्चाशत्सहस्नमूल्येऽनवस्थाप्यम् । शतसहस्रमूल्ये पाराश्चिकम् ॥ अथवा [मा. ३८९७ ] अट्ठारस वीसा या, पन्नास तथा सयं सहस्सं च । पन्नासं च सहस्सा, तत्तो य भवे सयसहस्सं ॥ [ भा. ३८९८ ] चउगुरुग छच्च लहु गुरु, छेदो मूलं च होति बोद्धव्वं । अवटुप्पो य तहा, पावति पारंचियं ठाणं ॥ वृ- अष्टादशरूपकमूल्ये चतुर्गुरवः । विंशतिमूल्ये षड्लघवः । पञ्चाशन्मूल्ये षड्गुरवः । शतमूल्ये छेदः । सहस्रमूल्ये मूलम् । पञ्चाशत्सहस्रमूल्येऽनवस्थाप्यम् । शतसहस्रमूल्ये पाराचिकम् ॥ प्रकारान्तरेण भावकृत्स्नमुपदर्शयति [मा. ३८९९ ] अहवा रागसहगतो, वत्थं धारेति दोससहितो वा । एवं तु भावकसिणं, तिविहं परिणामनिष्फन्नं ॥ वृ- अथवा 'अहो ! रमणीयं वस्त्रम्' इत्येवं रागसहगतो यद्वा 'अहो ! मे मलिनं कुथितं वस्त्रम्' इत्येवं द्वेषसहितो यद् वस्त्र धारयति तदेतद् भावकृस्नं मन्तव्यम् । इदं च परिणामनिष्पत्रं त्रिविधम्, तद्यथा - जघन्येन राग-द्वेषपरिणामेन जघन्यम्, मध्यमेन मध्यमम्, उत्कृष्टेनोत्कृष्टम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy