________________
उद्देशक ः ३, मूलं-८७, [भा. ३८७९]
____३८५ [भा.३८७९] पडिसिद्धं खलु कसिणं, चम्मं वत्थकसिणं पि नेच्छामो।
अववादियं तु चम्मं, न वत्थमिति जोगनाणत्तं ।। वृ-प्रतिषिद्धं खल्वनन्तरसूत्रेचर्मकृत्स्नम्, यथाचतन्न कल्पते तथा वस्त्रकृत्सनमपि नेच्छामः प्रतिग्रहीतुम्।यद्वा पूर्वसूत्रेचर्म आपवादिकमुक्तम्, इदंतु वस्त्र नापवादिकं किन्तु सदैव साधुभिः परिभुज्यमानत्वेनौत्सर्गिकम्, अत इदं प्रतिपक्षतयासूत्रमारभ्यते इति योगस्य-सम्बन्धस्य नानात्वंप्रकारान्तरतेत्यर्थः । अनेनसम्बन्धेनायातस्यास्य व्याख्या-"नोकप्पई"त्ति आर्षत्वादेकवचनम्, नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'कृत्स्नानि' सकलकृत्स्नादिरूपाणि वस्त्रणि 'धारयितुं वा' परिग्रहे धर्तु परिहत्तुं वा' परिभोक्तुम्, अकृत्स्नानि तु कल्पन्त इति सूत्रस पार्थः ।।
अथ नियुक्ति-भाष्यविस्तरः[भा.३८८०] कसिणस्स उ वत्थस्सा, निक्खेवो छबिहो तु कातव्यो।
नाम ठवणा दविए, खेत्ते काले य भावे य ।। वृ-कृत्स्नस्य वस्त्रस्य निक्षेपः षड्विधः कर्त्तव्यः । तद्यथा-नामकृत्स्नं १ स्थापनाकृत्स्नं २ द्रव्यकृत्स्नं ३ क्षेत्रकृत्स्नं ४ भावकृत्स्नं ६ चेति । तत्र नाम-स्थापने गतार्थे ।। द्रव्यकृत्स्नमाह[भा.३८८१] दुविहं तु दव्बकसिणं, सकलक्कसिणं पमाणकसिणंच ।
एतेसिं दोण्हं पी, पत्तेय परूवणं वोच्छं। वृ-'द्विविध' द्विप्रकारं द्रव्यकृत्स्नम्, तद्यथा-सकलकृत्स्नं प्रमाणकृत्स्नं चेति । एतयोर्द्वयोरपि 'प्रत्येकं' पृथक् प्ररूपणां वक्ष्ये ।। प्रतिज्ञातमेव निर्वाहयति[भा.३८८२] घन मसिणं निरवहयं, जं वत्यं लभते सदसियागं ।
एतं तु सकलकसिणं, जहन्नगं मज्झिमुक्कोसं ॥ वृ-'धनं तन्तुभिः सान्द्रं 'मसृण’ सुकुमारस्पर्श निरुपहतम्' अञ्जन-खञ्जनादिदोषरहितम्, एवंविधं यद् वस्त्र सदशाकं लभ्यते एतत् सकलकृत्स्नमुच्यते । तच्च जघन्यं मध्यममुत्कृष्टं वा ज्ञातव्यम् । जघन्यं मुखपोतिकादि, मध्यमं पटकादि, उत्कृष्ट कल्पादि ।। (भा.३८८३] वित्थारा-ऽऽयामेणं, जंवत्यं लभए समतिरेगं ।
एवं पमाणकसिणं, जहन्नयं मज्झिमुक्कोसं ।। वृ-विस्तारश्च-पृथुत्वं आयामश्च-दैर्ध्य विस्तारा-ऽऽयामम्, द्वन्द्वकवद्भावः, तेन, यद् वस्त्र यथोक्तप्रमाणतः समतिरिक्तं लभ्यते एतत्प्रमाणकृत्स्नं भण्यते । तच्चजघन्य-मध्यमोत्कृष्टभेदात् त्रिविधं प्राग्वद् द्रष्टव्यम् । क्षेत्र कृत्स्नमाह[भा.३८८४] जंवत्थ जम्मि देसम्मि दुल्लहं अनियं वजंजत्थ ।
तं खित्तजुयं कसिणं, जहन्नयं मज्झिमुक्कोसं॥ वृ यद् वस्त्र यस्मिन् देशे दुर्लभम्, यत्र वा यद् ‘अर्चित' सुमहार्धम्, यथा-पूर्वदेशजं वस्त्र लाटविषयं प्राप्य महाय॑म्, तत् क्षेत्रयुतं कृत्स्नमुच्यते, क्षेत्रकृत्स्नमित्यर्थः । तदपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् ॥ कालकृत्स्नमाह
[मा.३८८५] जंवत्य जम्मि कालम्मि अग्घितं दुल्लभं वजंजत्थ । [1925
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org