________________
३८४
बृहत्कल्प-छेदसूत्रम् -२-३/८६
एगपुड-विवन्नेहि य, तहिं तहिं बंधते कळे ।। यद्यकृत्स्नस्य चर्मणो ग्रहणं कर्त्तव्यं तत उपानहावष्टादश भागान वक्ष्यमाणक्रमेण कृत्वा तैः खण्डैरेकपुटैर्विवर्णं चशब्दादेकबन्धैश्च यत्र यत्र पादप्रदेशे आबाधा तत्र तत्र कार्ये समुत्पन्ने बध्नीयात् ।। कथं पुनरष्टादश खण्डानि भवन्ति? इत्युच्यते[भा.३८७५] . पंचंगुल पत्तेयं, अंगुट्ठमझे यछट्ठ खण्डं तु ।
सत्तममग्गतलम्मी, मन्झऽहम पण्हिया नवमं ।। वृ-इहैक्य पादस्य पञ्चानामङ्गुलीनां बन्धनाय प्रत्येकमेकैकं खण्डं कर्तव्यम्, अङ्गुष्ठस्य चाधः षष्ठं खण्डम्, अग्रतले सप्तमम्, मध्यतलेऽष्टमम्, पार्णिकायां नवमम्, एवं द्वितीयस्याप्युपानहो नव खण्डानि, सर्वाण्यष्येवमष्टादश खण्डानि भवन्ति ।। एवं परेणोक्ते सति सूरिराह[भा.३८७६] एवइयाणं गहणे, मासो मुच्चंति होति पलिमंथो।
बितियपदे घेप्पमाणे, दो खंडा मज्झपडिबंधा॥ वृ-एतावतां खण्डानां ग्रहणे मासलघु प्रायश्चित्तम्, असामाचारीनिष्पन्नमित्यर्थः । मुच्यमानेषु चैतावत्सु खण्डेषु महान् सूत्रा-ऽर्थयोः परिमन्थो भवति । आह-यद्येवं ततः कियन्ति खण्डानि क्रियन्ते? इत्याह-द्वितीयपदे यदा चर्म गृह्यते तदा मध्यप्रतिबद्धे द्वे खण्डे कर्तव्ये, मध्यभागात त्रोटयित्वा खण्डद्वयं विधाय मध्ये वर्धादिना बन्धनीयमित्यर्थः । अत्र पूर्वार्द्धस्येदं पाठान्तरम्"मुच्चंतेपलिमंथो, जत्तियमित्तं तुतत्तिए गहणं।" अष्टादश खण्डानि मुञ्चति साधोर्महान् पलिमन्थः, ततो यावन्मात्रपरिमन्थाय भवति तावन्मानं ग्रहीतव्यम् । उत्तरार्द्ध प्राग्वत् ।।
अथाष्टादशानां खण्डानां करणे कीशः परिमन्यो भवति? इत्याह[भा.३८७७] पडिलेहा पलिमंथो, नदिमादुदए य मुंच-बंधते ।
सत्थफिडनेन तेना, अंतरवेधो य डंकणता ।। वृ. यावदष्टादश खण्डानि द्विसन्ध्यं प्रत्युपेक्षते तावत् सूत्रार्थयोः परिमन्थो भवति । नद्याधुदकमवतितीर्घश्च यावदष्टादश खण्डानि मुञ्चति उत्तीर्णश्च यावत् तानि भूयोऽपि बध्नाति तावत् सार्थात् स्फिटति, स्फिटितश्च स्तेनानां गम्यो भवति । बहूनां खण्डानामन्तरेषु च कण्टकैविध्येत । बहुबन्धघर्षेण वा पादयोर्डको भवेत् । यत एवमतः पूर्वोक्तनीत्या खण्डद्वयं विधेयम्।।
कथं पुनस्तद् बन्धनीयम् ? इत्याह[भा.३८७८] तज्जायमतजायं, दुविहं व बंधनं तस्स ।
तज्जायम्मि वि लहुओ, तत्थवि आणादिणो दोसा ।। घृ-'तस्य' चर्मखण्डद्वयस्य तञ्जातं वा बन्धनं भवति अतज्जातं वा बन्धनं भवति । तज्जातं नाम तस्मिन्-चर्मणि जातम् वर्धादिबन्धनमित्यर्थः, तद्विपरीतं दवरकादिकमतज्जातम् । एतच्च द्विविधं त्रिविधं वा भवति, द्वौ वा त्रयो वा बन्धा दातव्या इति भावः । अत्र प्रथममतजातेन दवरकादिना बन्धनीयम्।यदि तज्जातेन वर्धादिना बध्नाति ततो मासलघु, तत्राप्याज्ञादयो दोषा भवन्ति ॥
मू. (८७) नो कप्पइ निग्गंथाण वा निग्गंधीण वा कसिणाईवस्थाइंधारित्तएवा परिहरित्तए वा। कप्पइ निग्गंधाण वा निग्गंथीण वा अकसिणाइंवत्थाइंधारित्तए वापरिहरित्तए वा ॥ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International