SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं - ८५, [भा. ३८६९] ३८३ वा चर्म साधुना स्वयं न कर्त्तव्यम्, अन्येन न कारापयितव्यम्, अन्यस्य कुर्वतो नानुमोदना कर्तव्या, किन्तु यत् पूर्वमेव गृहस्थैर्यथाभावेन कृतं तस्मिन् 'अधिकारः' प्रयोजनम्, तस्य ग्रहणं कर्त्तव्यमिति भावः ॥ अथ द्वौ त्रयो वा बन्धाः कुत्र भवन्ति ? इति उच्यते [भा. ३८७०] खुलए एगो बंधो, एगो पंचगुलस्स दोन्नेते । खुलए एगो अंगुड बितिय चउरंगुले ततितो ॥ वृ- 'खुलके' घुण्टके एको वध्रबन्धो भवति, 'एकस्तु' द्वितीयो बन्धः 'पञ्चाङ्गुलस्य' चतसृणामङ्गुलीनामङ्गुष्ठस्य चेत्यर्थः, एतौ द्वौ बन्धौ मन्तव्यौ । यदा तु त्रयो बन्धा भवन्ति तदा खुलके एकः अङ्गुष्ठे द्वितीयः चतसृणामङ्गुलीनां तृतीयः ॥ अथ स्वयकरणादिषु प्रायश्चित्तमाह[भा. ३८७१] सयकरणे चउलहुगा, परकरणे मासियं अनुग्घायं । अनुमोदने वि लहुओ, तत्थ वि आणादिणो दोसा || वृ- स्वयं यदि चर्म करोति तदा चतुर्लघवः । अथ परेण कारयति तदा मासिकमनुद्धातम्, मासगुरुकमित्यर्थः । अनुमोदनायां मासलघु । तंत्रापि स्वयङ्करणादावाज्ञादयो । तत्रापि स्वयङ्करणादावाज्ञादयो दोषा उड्डाहश्च भवति, तथाहि तं संयतं स्वयमेव चर्म कुर्वाणं दृष्ट्वा लोको ब्रवीति - अहो ! चर्मकरोऽयमिति । अथ पूर्वकृतं न लभ्यते ततोऽनुमोदनया गृह्णीयात् । कथम् ? इति चेद् उच्यते यदि कोऽपि ब्रूयात् अहं ते उपानही करोमि ? ततः प्रतिशृणुयात् तूष्णीको वा तिष्ठेत् । अथानुमोदनया न प्राप्यते ततोऽन्येन कारयेत् । एवमप्यलाभे आत्मनाऽपि यतनया कुर्यात् ॥ मू. (८६) कप्पइ निग्गंथाण वा निग्गंधीण वा अकसिणाई चम्माई धारितए वा परिहरितए वा ॥ वृ- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा (अकृत्स्नानि) चर्माणि धारयितुं वा परिहर्तुं वा इति सूत्रार्थः ॥ अथ भाष्यम् [भा. ३८७२] अकसिणचम्मग्गहणे, लहुओ मासो उ दोस आणादी । बितियपद घेप्पमाणे, अट्ठारस जाव उक्कोसा ।। - यद्यपि सूत्रेऽनुज्ञातं तथापि न कल्पते अकृत्स्नचर्म प्रतिग्रहीतुम् । यदि गृह्णाति ततो लघुको मासः प्रायश्चित्तम्, आज्ञादयश्च दोषाः । 'द्वितीयपदे तु' पूर्वोक्तैरध्वादिभि कारणैरकृत्स्ने गृह्यमाणे विधिरभिधीयते । तत्र नोदकः प्राह-यद्यकृत्स्नं ग्रहीतुं कल्पते ततो द्वयोरुपानहोरुत्कर्षतोऽष्टादश खण्डानि यावत् कर्त्तव्यानि ।। इदमेव व्याचष्टे - [मा. ३८७३ ] अकसिणमट्ठारसगं, एगपुड विवन्न एगबंधं च । तं कारणम्मि कम्पति, निक्कारण धारणे लहुओ ॥ बृ- अकृत्स्नं नाम अष्टादशकम् ' अष्टादशभिः खण्डैः कृतम् १ तदपि 'एकपुटम्' एकतलं २ 'विवर्ण' न वर्णाढ्यं ३ ' एकबन्धं च' न व्यादिबन्धनोपेतम् ३, एभिश्चतुर्भि पदैर्यथाक्रमं सकलप्रमाण-वर्ण-बन्धनैः कृत्स्नता परिहृता । तदेवंविधमकृत्स्नं चर्म कारणे धारयितुं कल्पते । अथ निष्कारणे धारयति ततो लघुमासः । एषा पुरातना गाथा ।। अथैना व्याख्याति [भा. ३८७४] जइ अकसिणस्स गहणं, भाए काउं कमेण अट्ठदस । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy