SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ ३८२ बृहत्कल्प-छेदसूत्रम् -२-३/८५ पर्यटतः कस्यापि पादतलं घृष्टं तत उपानही पिना पर्यटति॥ [भा.३८६५] कुट्ठिस्स सक्करादीहि वा वि भित्रो कमो मधूला वा। बालो असंफरो पुन, अज्जा विहि दोन पासादी । वृकुष्ठिनः सम्बन्धी शोणित-पूयेन 'भिन्नः' स्फटितः क्रमः शर्करा-कण्टकादिभिराक्रान्तो महती पीडामुपजनयति, मधूला वा' पादगण्डं कस्यापि समजनि ततः क्रमणिके बध्नाति । बालो वा कश्चिद् ‘असंस्फरः' असंवृतो यत्र तत्र पादं मुञ्चन् कण्टकादिभिरुपयेत्, अतोऽसौ क्रमणिके परिधाप्यते । आर्या वा 'विधम् अध्वानं नेतव्याः, तत्र च “दोच"त्ति चौरादिभयम्, ततो वृषभाः क्रमणिकाः पिनह्य पन्थानं मुक्त्वा पावस्थिता गच्छन्ति, आदिशब्दात् सर्वाणि वा तत्रोत्पथेन व्रजन्ति । यो वा चक्षुषा दुर्बलः स वैद्योपदेशेनोपानही पिनह्यति, यतः पादयोरभ्यङ्गनोपानद्वन्धनादिपरिकर्म यत् क्रियते तत् चक्षुष उपकाराय परिणमते । यत उक्तम् दन्तानामञ्जनं श्रेष्ठं, कर्णानां दन्तधावनम् । शिरोऽभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुषोः॥ कारणजातद्वारमाह[भा.३८६६] कुलमाइकन दंडिय, पासादी तुरियधावणट्ठा वा । कारणजाते वऽने, सागारमसागरे जतना ।। -कुलादिषु-कुल-गण-सझविषयेषु कार्येषुदण्डिकावलगनार्थम्, पावस्थितैः आदिशब्दात् पुरः पृष्ठतो वा गच्छद्भिः , त्वरितं वा धावनार्थम्, कारणजाते वा अन्यस्मिन् आगाढे समुत्पन्ने उपानह: परिभोक्तव्याः । तत्र च सागारिका-ऽसागारिकविषया यतना, यत्र सागारिकदोषो नास्ति तत्र नास्ति यतनाक्रमः, यत्र पुनः सागारिका उड्डाहं कुर्वन्ति तत्र ग्रामादिषु क्रमणिका अपनीय प्रविशन्तीति भावः । एवमध्वादिषु कारणेषु कृत्स्नचर्मणो ग्रहणे प्राप्ते विधिमाह[भा.३८६७] पंचविसम्मि विकसिणे, किण्हग्गहणं तु पढमतो कुजा । किण्हम्मि असंतम्मि, विवनकसिणं तहिं कुञा ।। कृपञ्चविधे वर्णकृत्स्ने प्रथमतः कृष्णवर्णकृत्स्नग्रहणं कुर्यात् । ततः कृष्णे वर्णकृत्स्ने 'असति अलभ्यमाने लोहितादिवर्णकृत्स्नमपि गृह्णीयात् । तच्च कृत्स्नमूष-तैलादिभिः 'विवण विरूपवर्ण कुर्याद् यथा लोको नोड्डाहं कुरुते आत्मनो वा न तत्र रागो भवति । [भा.३८६८] किण्हं पि गेण्हमाणो, झुसिरग्गहणं तु वञ्जए साहू । बहुबंधनकसिणं पुन, वञ्जयव्वं पयत्तेणं ।। .कृष्णवर्णमपि गृह्णन् शुषिरग्रहणं साधुः प्रयत्नतो वर्जयेत् । अत्र पाठान्तरम्-“कसिणं पिगिण्हमाणो "त्ति, कृत्स्नं सकलकृत्स्नंप्रमाणकृत्स्नवा द्वितीयपदे गृहन् शुषिरग्रहणंसाधुर्वर्जयेत्। यत्तु बहुबन्धनकृत्स्नं तत् प्रयलतो वर्जयितथ्यम् ।। अथ किं तद् बन्धनम् ? इत्याशझ्याह[भा.३८६९] दोरेहि व वझेहि व, दुविहं तिविहं व बंधणं तस्स । . अनुमोदन कारावण, पुब्बकतम्मिं अधीकारो॥ वृ-दवकैर्वा वा द्विविधं त्रिविधं वा बन्धनं तस्य चर्मणो भवति, द्वौ वा त्रयो वा बन्या दातव्या इत्यर्थः । एवंविधंबन्धनकृत्स्नमनुज्ञातम्, न चतुरादिबहुबन्धनबद्धम् । तथा कृत्स्नमकृत्स्नं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy