________________
३८०
बृहत्कल्प-छेदसूत्रम् -२-३/८५ बंधण वन्न पमाणे, लहुगा तह पूरपुन्ने य ।। वृ-अङ्गुलिकोशे अङ्गुष्ठकोशके च पञ्चकम् । सकलकृत्स्ने 'शुष्केच' पूरपूरणविरहिते खल्लके मासलघु । बन्धनकृस्ने वर्णकृत्स्ने 'प्रमाणकृस्ने च' द्विपुटादिरूपे वूरपूर्णेच खल्लके चतुर्लघवः।। अर्धखल्लकादिषु यत् पूर्वं चतुर्गुरुकमुक्तं तदेव विशेषयन्नाह[भा.३८५४] अद्धे समत्त खल्लग, वग्गुरि खपुसा य अद्धजंघा य।
___ गुरुगा दोहि विसिट्ठा, वग्गुरिए अन्नतरएणं ।। - 'अर्द्धखल्लकायाम्' उपानहि यच्चतुर्गुरु तत् तपसा कालेनच लघुकम् । समस्तखल्लकायां कालगुरुकम् । वागुरिकायाम् 'अन्यतरेण तपसा कालेन वा गुरुकम् । खपुसायां तपोगुरुकम् । अर्धजवायां समस्तजसायां च तपसा कालेन च गुरुकम् ।। किञ्च[भा.३८५५] जत्तियमित्ता वारा, तु बंधते व जति वारा।
सट्ठाणं तति वारे, होति विवड्डी य पच्छित्ते ॥ पृ-यावन्मात्रान् वारान् अङ्गुलीकोश-सकलकृत्स्नादिकं बध्नाति, मुञ्चति वा 'यति' यावतो वारान्तति तावन्तो वाराः स्वस्थानं मन्तव्यम् । 'स्वस्थानं नाम' यद् यत्र पञ्चकादिचतुर्गुरुकान्तं प्रायश्चित्तमुक्तम् । तथाऽऽज्ञाभङ्गे चतुर्गुरु, अनवस्थायां चतुर्लधु, मिथ्यात्वे चतुर्लघु, आत्मविराधनायां चतुर्गुरु, संयमविराधनायांकायनिष्पन्नम्, एवमाज्ञादिभि पदैरभीक्ष्णसेवानिष्पन्ना वा प्रायश्चित्तस्य विवृद्धिर्भवति । अथोपानहोर्दोषप्रदर्शनार्थमिदमाह[भा.३८५६] गब्बो निम्मद्दवता, निरवेक्खो निद्दतो निरंतरता ।
भूताणं उवधाओ, कसिणे चम्मम्मि छद्दोसा ।। वृ- उपानहोः पिनद्धयोर्गो निर्दिवता च भवेत्, जीवेषु निरपेक्षो निर्दयश्चासौ भवति, 'निरन्तरता' निरन्तरभूमिस्पर्शिता, 'भूतानां तु प्राणिनामुपघातचोपजायते । एवं कृत्स्ने चर्मणि षड् दोषा भवन्तीति द्वारगाथासङ्केपार्थः ।। साम्प्रतमेनामेव प्रतिपदं विवृणोति[भा.३८५७] आसगता हत्थिगतो, गम्विनइ भूमितो य कमनिल्लो ।
पादो उ समाउक्को, कमणीउ खरा अवि य भारो॥ वृ 'अश्वगताद्' अश्वारूढाद् हस्तिगतः पुरुषो यथा गर्वायते एवं भूमिगतात् क्रमणिकावान् गर्व करोति-अहो ! अहं सोपानको व्रजामीति । तथा पादः स्वभावेनैव समार्दवस्ततः स न तथा जीवोपघातं करोति यथा क्रमणिकाः 'खराः' कर्कस्पर्शा जीवोपघातं कुर्वन्ति। अपि च भारस्तासां महान् भवति, ततस्तदाक्रान्ता बहवो जीवा विनाशमश्नुवते ॥ निरपेक्षद्वारमाह[भा.३८५८] कंटाई देहंतो, जीवे वि हु सो तहेव देहिज्जा ।
अस्थि महं ति य कमणी, नावेक्खइ कंटएण जिए ।। वृ-अनुपानत्को गच्छन् कण्टकादीन् मार्गे प्रेक्षते, ततस्तान् प्रेक्षमाणो जीवानपि तथैवासौ प्रेक्षेत । सोपानत्कस्तु गच्छन् विद्येते मम क्रमणिके इति कृत्वा निरपायत्वादात्मनो न कण्टकादिकमपेक्षते, ततश्चासौ जीवेष्वपि निरपेक्षो भवति ॥ अथ निर्दयद्वारमाह[भा.३८५९] : पुचि अदया भूएसु होति बंधति कमेसु तो कमणी।
जायति हु तदब्भासा, सुदयालुस्सावि निद्दयया ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org