________________
३७८
बृहत्कल्प-छेदसूत्रम् -२-३/८४ [भा.३८४२] भत्तपरिन गिलाणे, कुसमाइ खराऽसती तुझुसिरा वि ।
अप्पडिलेहियदूसाऽसती य पच्छा तणा होती॥ वृ- 'भक्तपरिज्ञावतः' प्रतिपन्नानशनस्य तथा ग्लानस्यास्तरणार्थं कुशादीन्यशुषिरतृणानि गृह्यन्ते। अथ तानि 'खराणि' कर्कशानिन वा तानि प्राप्यन्ते ततः शुषिराण्यपितृणानि ग्रहीतव्यानि। अथवा भक्तप्रत्याख्यानिनो ग्लानस्य वा सुखशयनार्थं ततः शुषिराण्यपि तृणानि ग्रहीतव्यानि । अथवा भक्तप्रत्याख्यानिनो ग्लानस्य वा सुखशयनार्थं प्रथमतः 'अप्रत्युपेक्ष्यदूष्यम्' उपधानतूल्यादि ग्रहीतव्यम्, तदभावे यथाक्रममशुषिर-शुषिराणि पश्चात् तृणानि भवन्ति, तानि प्रस्तीर्यन्त इत्यर्थः।। [मा.३८४३] दुप्पडिलेहियदूसे, अद्धाणादी विवित्त गेण्हति ।
घेपति पोत्थगपणगं, कालिय-निद्भुत्तिकोसट्ठा । वृ.अध्वादौ 'विविक्ताः' मुषिताः सन्तो यथोक्तमुपधिमलभमानाः दुष्प्रत्युपेक्ष्यदूष्याणि' कोयवि-प्रावारप्रभृतीनि गृह्णन्ति । तथा मति मेघादिपरिहाणिं विज्ञाय कालिकश्रुतस्य उपलक्षणत्वाद् उत्कालिकश्रुतस्य वा नियुक्तीनां चाऽऽवश्यकादिप्रतिबद्धानां दान-ग्रहणादौ कोश इवभाण्डागारमिवेदं भविष्यतीत्येवमर्थं पुस्तकपञ्चकमपि गृह्यते ।।
मू. (८५)-नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइंचम्माइंधारित्तए वा परिहरित्तए वा।।
वृ.अस्य सम्बन्धमाह[भा.३८४] चम्मं चैवाहिकयं, तस्स पमाणमिह मिस्सिए सुत्ते।
अपमाणं पडिसिज्झति, न उ गहणं एस संबंधो ।। वृ-इह पूर्वसूत्रे चर्मैव तावदधिकृतम् अतः 'तस्य चर्मणः प्रमाणमिह 'मिश्रिते' निर्ग्रन्थनिर्ग्रन्थीप्रतिबद्धे सूत्रे प्रस्वप्यते, 'अप्रमाणं प्रमाणातिरिक्तं तत् प्रतिषिध्यते, न पुनः सर्वथा चर्मणो ग्रहणम् । एष सम्बन्धः । [भा.३८४५] अहवा अच्छुरणट्ठा, तं वुत्तमिदं तु पादरक्खट्ठा ।
तस्स वि य वन्नमादी, पडिसेहेती इहं सुत्ते ॥ वृ-अथवा 'तत् पूर्वसूत्रोक्तंचर्म आस्तरणार्थमुक्तम्, 'इदंतु प्रस्तुतसूत्रे पादरक्षार्थमुच्यते। 'तस्यापि च' चर्मणो ये वर्णादयो गुणास्तद्युक्तमिह सूत्रे प्रतिषेधयतीति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ‘कृत्स्नानि वर्ण प्रमाणादिभिः प्रतिपूर्णानि चर्माणि धारयितुं वा परिहर्तुं वेति सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.३८४६] सगल पमाण वन्ने, बंधकसिणे य होइ नायव्वे ।
अकसिणमट्ठारसगं, दोसु वि पासेसु खंडाई॥ वृ-कृत्स्नं चतुर्धा-सकलकृत्स्नं १ प्रमाणकृत्स्नं २ वर्णकृत्स्नं ३ बन्धनकृत्स्नं ४ चेति भवति ज्ञातव्यम् । एतच्चतुर्विधमपिन कल्पते प्रतिग्रहीतुम् । परः प्राह-यद्येवं ततो यद् अकृत्स्नं चर्म तद् 'अष्टादशकम्' अष्टादशभिः खण्डैः कर्तव्यमित्यर्थः । तानि च खण्डानि द्वयोरपि पार्श्वयोः परिधातव्यानि इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवरीषुराह
[भा.३८४७] एगपुड सककसिणं, दुपुडादीयं पमाणतो कसिणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org