________________
उद्देशकः ३, मूलं-८४, [भा. ३८३५]
३७७ न कल्पते तर्हि मा कल्पताम्, यत्तु सलोमकं तत्तावत्सूत्रेणानुज्ञातम्, भवद्भिस्तुतदपि प्रतिषिद्धम् तदेतत् कथम् ? इति अत्रोच्यते[मा.३८३६] सुत्तनिवाओ वुडे, गिलाण तदिवस भुत्त जतणाए ।
आगाढ गिलाणे मक्खण?, घट्टे भिन्ने व अरिसाउ ॥ वृ-सूत्रनिपातो वृद्धे ग्लाने वा भवति, वृद्धस्य ग्लानस्य वापरुषस्पर्शमसहिष्णोरास्तरणार्थं सलोम चर्म ग्राह्यमिति भावः । तच्च ‘तद्दिवसभुक्तं' कुम्भकारादिभिस्तस्मिन्नेव दिवसे परिभुक्तम्, तत्र हि त्रसादयः प्राणिनो न भवन्ति, तच्च गृहीत्वा ‘यतनया' रोमाण्युपरि कृत्वा परिभोक्तव्यम्। आगाढेच ग्लानत्वे यत् तैलेन म्रक्षणंतदर्थम्, यस्य वा गुदादिपाश्र्वाणि घृष्टानि, यो वासाधुर्भिन्नकुष्ठी, यस्य वा अऑसि समुद्भूतानि तदर्थं वा निर्लोम चर्म ग्रहीतव्यमिति सङ्ग्रहगाथासमासार्थः ।। अथैनामेव विवृणोति[भा.३८३७] संथारट्ट गिलाणे, अमिलादीचम्म घेप्पति सलोमं ।
वुड्डा-ऽसहु-बालाण व, अच्छुरणट्ठा वि एमेव ।। वृ- ग्लानस्य संस्तारकार्थममिलादिसम्बन्धि सलोम चर्म गृह्यते । वृद्धा-सहिष्णु-बालानामप्यास्तरणार्थम् ‘एवमेव' सलोम चर्म ग्राह्यम् ॥ तच कीशम् ? इत्याह[मा.३८३८] कुम्भार-लोहकारेहि दिवसमलियं तु तं तसविहूणं ।
उवरि लोमे काउं, सोत्तुं गोसे समप्पेति ।। -कुम्भकार-लोहकारादिभिस्वस्वकर्म कुर्वाणैर्य दिवसतो मलितं' परिभुक्तं तत् त्रसविहीनं भवति । अतः सन्ध्यासमये तेषु उत्थितेषु तत् प्रातिहारिकं गृहीत्वा लोमान्युपरि कृत्वा रात्रौ तत्र सुप्तवा 'गोसे' प्रभाते प्रत्यर्पयन्ति ।। [भा.३८३९] अवताणगादि निल्लोम तेल्ल वम्मट्ट घेप्पती चम्मं ।
घट्टा व जस्स पासा, गलंतकोढेऽरिसासुं वा ।। वृ-अक्याणादितैलेन वा ग्लानस्याभ्यङ्गे विधातव्ये निर्लोम चर्म ग्रहीतव्यम् । अध्वानादौ वा वर्मार्थम्, यस्य वा पाश्वाणि घृष्टानि तस्यास्तरणार्थम्, यो वा गलत्कुष्ठः साधुस्तस्य परिधानार्थमास्तरणार्थं वा, अर्शासि वा यस्य समुत्पन्नानि तस्योपवेशनार्थं निर्लोम चर्म गृह्यते॥ [भा.३८४०] सोणिय-पूयालित्ते, दुक्खं धुवणा दिने दिने चीरे ।
कच्छुल्ले किडिभिल्ले, छप्पतिगिल्ले व निल्लोमं ॥ वृ-शोणितेन पूयेन वा आलिप्तस्य चीवरस्य दिने दिने धावना दुष्करा, अतः कच्छ्वतः किटिभवतश्च निर्लोम चर्म कल्पते । कच्छू:-पामा, किटिभं-शरीरैकदेशभावी कुष्ठभेदः । तथा यस्य षट्पदिकाः प्राचुर्येण सम्मूर्च्छन्ति स षट्पदिकावान् निर्लोमचर्मपरिधानं गृह्णाति ॥ [भा.३८४१] जह कारणे निल्लोमं, तु कप्पती तह भवेज इयरं पि ।
आगाढि सलोमं आदिकाउ जा पोत्थए गहणं ।। वृ-यथा कारणे निर्लोप चर्म कल्पते तथा 'इतरदपि' शुषिरमपि ग्रहीतुं कल्पते । किं बहुना? आगाढे कारणे सलोम चर्म आदौ कत्वा पश्चानुपूर्व्या तावद् नेतव्यं यावत् पुस्तकस्यापि ग्रहणं कर्तव्यम् ।। एतदेव स्पष्टयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org