________________
३७६
बृहत्कल्प-छेदसूत्रम् -२-३/८४ न च ते जीवाः 'ततः' पुस्तकाद् निर्गन्तुं शक्नुयुः ।। {भा.३८३०] जइ तेसिं जीवाणं, तत्थ गयाणं तु लोहियं होज्जा ।
पीलिज्जंते धनियं, गलेज तं अक्खरे फुसितं ॥ -यदि तेषां तत्रगतानां पुस्तक-पत्रान्तरस्थितानां ‘जीवानां कुन्थुप्रभृतीनां लोहितं भवेत् ततः पुस्तकबन्धनकाले तेषां धनियं' गाढतरं पीड्यमानानां 'तद्' अनन्तरोक्तं रुधिरमक्षराणि स्पृष्ट्वा बहि परिगलेत् ।। अत एव[भा.३८३१] जत्तियमेत्ता वारा, उ मुंचई बंधई व जति वारा ।
जति अक्खराणि लिहति व, तति लहुगा जंच आवजे ।। वृ-यावन्मात्रान् वारान् पुस्तकं मुञ्चति' छोटयि, यति वारांश्च बध्नाति, 'यति वा' यावन्ति अक्षराणि लिखति तति' तावन्तिचतुर्लघूनि । यच्च कुन्थु-पनकादीनां सट्टनं परितापनमपद्रावणं वा आपद्यत तनिष्पन्नं प्रायश्चित्तम् । अथ तृणपञ्चकादिषु दोषानाह[भा.३८३२] तणपनगम्मि वि दोसा, विराधना होति संजमा-ऽऽताए।
- सेसेसु वि पनगेसुं, विराधना संजमे होति ।। वृ-तृणपञ्चकेऽपि 'दोषाः' आज्ञाभङ्गादयो भवन्ति, विराधना च संयमा-ऽऽत्मविषया । 'शेषेष्वपि' दूष्यपञ्चकादिषु संयमविषया विराधना भवति ।। इदमेव भावयति[भा.३८३३] अहि-विच्चुग-विसकंडगमादीहि खयं व होज्ज आयाए ।
- कुंथादि संजमम्मिं, जति उव्वत्तादि तति लहुगा ॥ वृ-तृणादिषु शुषिरत्वादहिर्वा वृश्चिको वा वनिषकण्टको वा भवेद् एतैः आदिशब्दात् मत्कोटकादिभिश्च तत्र शयान आसीनो वोपद्रूयेत, क्षतं वा दर्भादिषु सुप्तस्य भवेत्, एषाऽऽत्मविराधना । कुन्थु-पनकादिप्राणिव्यपरोपणंतु संयमविराधना । तृणेषु च प्रसुप्तः ‘यति' यापतो वारानुद्वर्तनं परिवर्तनमाकुञ्चनं प्रसारणं वा करोति 'तति' तावन्तश्चतुर्लघुकाः ।।
अत्र परः प्राह- . [भा.३८३४] दिट्ठ सलोमे दोसा, निल्लोमं नाम कप्पती घेत्तुं।
गिण्हणे गुरुगा पडिलेह पनग तसपान सतिकरणं ।। वृ-सलोमचर्मणि यतो दोषा दृष्टाः अतो निर्ग्रन्थानां निर्लोम चर्म 'नाम' इति सम्भावयामः कल्पते ग्रहीतुम् । सूरिराह-यदि निर्लोमचर्मणो ग्रहणं करोति ततश्चतुर्गुरुकाः, यतस्तत्र प्रत्युपेक्षणा न शुध्यति, पनकसप्राणिनो वा सम्मूछन्ति, सुकुमारतया भुक्तभोगिनः स्मृतिकरणं भवति अभुक्तभोगिनस्तु कौतुकम् ।। इदमेव स्पष्टयति[भा.३८३५] भुत्तस्स सतीकरणं, सरिसं इत्थीण एयफासेणं ।
___ जति ता अचेयणम्मि, फासो किमु चेयणे इतरे ॥ वृ-भुक्तभोगिनः स्मृतिकरणं भवति-अहो ! स्त्रीणां सम्बन्धी यः स्पर्शोऽस्माभिरनुभूतपूर्व तेन सध्शमेतत् चर्मानुभूयते ।अभुक्तभोगिनः कौतुकम्, यथा-यदि तावदचेतनेऽपि चर्मण्येतादृशः सुखस्पर्शोऽनुभूयते किं पुनः सचेतने 'इतरस्मिन्' स्त्रीशरीरे भविता ? । एवं विचिन्त्य प्रतिगमनादीनि कुर्युः । यत एते दोषा अतो निर्लोमापिन ग्रहीतव्यम् ।। आह यदि निर्लोम ग्रहीतुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org