SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-३/८३ तच्चातिरिक्तोपकरणत्वादधिकरणं भवति । निर्लोमन्यपि चर्मणि परिभुज्यमाने त्रसप्राणिनो विराध्यन्ते । सङ्कचति च तस्मिन् 'करणं' पादकर्म संयती कुर्यात् ॥ [भा. ३८११] अविदिनोवधि पाना, पडिलेहा वि य न सुज्झति सलोमे । वासासु य संसज्जति, पतावमपतावणे दोसा ।। वृ-तीर्थकरैः अवितीर्ण-अदत्तोऽयं सलोमचर्मलक्षण उपधिः । शुषिरतया च तत्र रोमान्तरेषु प्राणिनः सम्मूर्च्छन्ति, प्रत्युपेक्षणाऽपि च न शुध्यति । वर्षासु च कुन्धु-पनकादिभिस्तत् चर्म संसज्यते । यदि संसजनभयात् प्रतापयति ततोऽग्निविराधना, अथ न प्रतापयति ततस्त्रसप्राणिनः संसजन्ति, एवमुभयथाऽपि दोषा भवन्ति ।। ३७२ [भा. ३८१२] आगंतु तदुब्भूया, सत्ताऽसिरे वि गिहितुं दुक्खं । अह उज्झति तो मरणं, सलोम-निल्लोमचम्मेयं ॥ वृ- 'आगन्तुकास्तदुद्भूताश्च कुन्थु-पनकादयः सत्त्वा अशुषिरेऽपि ग्रहीतुं दुःखेन शक्यन्ते किं पुनः शुषिरे सलोमचर्मणि ? । ततो यत् तेषां भूयोभूयः सङ्घट्यमानानां परितापनं तन्निष्पन्नं प्रायश्चित्तम् । अथ तदुद्भवान् जन्तूनुज्झति ततस्तेषां मरणं भवेत् । एतत् सलोम चर्माश्रित्योक्तम्। अथ सलोम-निर्लोम्नोरुभयोरपि दोषा उच्यन्ते ॥ [मा. ३८१३] भारो भय परितावण, मारण अहिकरणमेव अविदिने । तित्थकर - गणहरेहिं, सतिकरणं भुत्तभोगीणं ॥ वृ- सलोम्ना निर्लोम्ना वा चर्मणा मार्गे गच्छन्तीनां भारो भयं चोत्पद्यते । कुन्य-पनकादिजीवानां परितापनं मारणं वा भवति । अथैतद्दोषभयात् परित्यजति ततोऽसंयतैर्गृहीतेऽधिकरणम्। तीर्थकरगणधरैश्च 'अवितीर्ण' अदत्तोऽयमुपधि । सलोमनि च परिभुज्यमाने स्मृतिकरणं भुक्तभोगिनीनाम्, इतरासां कौतुकमुपजायते ।। कथम् ? इत्याह [मा. ३८१४] जइ ता अचेतनम्मि, अयिणे फरिलो उ एरिसो होति । किमया सचेतनम्मिं, पुरिसे फरिसो उ गमनादी ॥ वृ- यदि तावदचेतने 'अजिने' चर्मणि ईशः स्पर्शो भवति ततः किं पुनः सचेतनस्य पुरुषस्य स्पर्शो भवति ? । एवं विचिन्त्य काचिदार्यिका 'गमनम्' अवधावनं कुर्यात्, आदिशब्दाद् वैहायसमरणं वा प्रतिपद्यते ॥ द्वितीयदमाह [ मा. ३८१५] बिइयपय कारणम्मिं, चम्मुव्वलणं तु होति निल्लोमं । आगाढ कारणम्मिं, चम्म सलोमं पि जतणाए । वृ- द्वितीयपदे कारणे चर्मापि गृह्णीयात् । कथम् ? इत्याह- 'उद्बलनम्' अभ्यङ्गनं कस्याश्चिदार्थिकायाः कर्त्तव्यं तदर्थं निर्लोम चर्म गृह्यते । अथागाढं कारणं ततः सलोमचर्मणोऽपि यतनया परिभोगः कर्त्तव्य इति ।। अथैनामेव नियुक्तिगाथां विवृणोति [मा. ३८१६ ] उड्डम्मि वातम्मि धणुग्गहे वा, अरिसासु सूले व विमोइते वा । एगंग- सव्वंगगए व वाते, अब्मंगिता चिट्ठति चम्मऽ लोमे ॥ वृ- यस्याः संवत्याः प्राचुर्येणोर्द्धववात उच्छलति, 'धनुर्ग्रहोऽपि ' वातविशेषो यः शरीरं कुब्जीकरोति स वा यस्या अजनिष्ट, अर्शासि वा सज्जातानि, शूलं वा अभीक्ष्णमुद्धावति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy