________________
उद्देशक : ३, मूलं-८३, [भा. ३८१६]
३७३ पाणिपादाद्यङ्गं वा 'विमोचितं' स्वस्थानात् चलितम्, एकागतो वा सर्वाङ्गगतो वा कस्याश्चिद् वातः समुत्पन्नः सा निर्लोमचर्मणि अभ्यङ्गिता तिष्ठति ॥ अथ सलोमविषयं विधिमाह[भा.३८१७] तरच्छचम्मं अनिलामइस्स, कर्डि व वेāति जहिं व वातो।
. एरंड-ऽनेरंडसुणेण डकं, वेāति सोविंति व दीविचम्मे । वृ.अनिलामयी'वातरोगिणी तस्याः कटीं तरक्षचर्मणा वेष्टयन्ति । 'यत्र वा' हस्तादौ वातो भवति तं वेष्टयन्ति । एरण्डेन वा-हडक्कितेन अनेरण्डेन वा शुना या दष्टा तां वा चर्मणा वेष्टयन्ति, द्वीपिचर्मणि वा तां स्वापयन्ति॥ [भा.३८१८]पुया व घस्संति अणत्युयम्मि, पासा व घस्संति व थेरियाए।
लोहारमादीदिवसोवभुत्ते, लोमाणि काउं अह संपिहंति ॥ दृस्थविरायाः संयत्वा अनास्तृते प्रदेशे उपविशन्त्याः पुतौ घृष्येते, सुप्ताया वा पार्थी घृष्येते, ततः सलोम चर्मापि यद् दिवसतो लोहारादिभिरुपविशद्भिपभुक्तं तत् प्रातिहारिकं दिने दिने मार्गयित्वा लोमान्यद्यः कृत्वा 'सम्पिदधति' परिभुञ्जते इत्यर्थः ।। [भा.३८१९] दिवसे दिवसेच दुल्लभे, उच्चता घेत्तुं तमाइणं ।
लोमेहिं उन संविजोअए, मउअट्ठा व न ते समुद्धरे ।। वृ-अथ प्रातिहारिकं दिवसे दिवसे गवेष्यमाणं दुर्लभं-न लभ्यते इत्यर्थः, ततः 'उच्चतया' निदेजत्वेन “णं' इति तदजिनं गृहीत्वा रोमभि 'संवियोजयेत्' रोमाण्युत्खनेदिति भावः । अथ तेषूत्खातेषु तदजिनं परुषस्पर्श भवति मृदुतार्थं न 'तानि' रोमाणि समुद्धरेत् ॥
मू.(८४) कप्पइ निग्गंथाणं सलोमाइंचम्माइंअहिडितए, से विय परिभुत्ते नो वेवणं अपरिभुत्ते, से वि य पडिहारिए नो चेव णं अप्पडिहारिए, से वि य एगराईए नो वेवणं अनेगराईए ।
वृकल्पते निर्ग्रन्थानां सलोमानिचर्माणि अधिष्ठातुं परिभोक्तुम् । तत्रापि यत् चर्म परिभुक्तं तदेव ग्राह्यं नापरिमुक्तम् । तदपि च प्रातिहारिकं नाप्रातिहारिकम् । तदपि चैकरात्रिकं नैवानेकरात्रिकमिति सूत्रार्थः । एतद् निर्ग्रन्थानामपवादसूत्रम् ॥
अत्र शिष्यः प्राह-निर्ग्रन्थीनां किं कारणं न कल्पते? सूरिराह[भा.३८२०]दोसा तु जे होति तवस्सिणीणं, लोमाइणे ते न जतीण तम्मि ।
तं कप्पती तेसि सुतोवदेसा, जं कप्पती तासि न तं जतीणं ॥ वृ.ये 'दोषाः' स्मृतिकरणादयस्तपखिनीनां लोमयुक्तोऽजिने-चर्मणि भवन्ति ते यतीनां 'तस्मिन्' सलोमचर्मणि न भवन्ति । अतस्तत् कल्पते तेषां 'श्रुतोपदेशात' प्रस्तुतसूत्रवचनात् । यञ्च निर्लोम चर्म तासां कल्पते न तद् यतीनाम्, स्मृतिकरणादिदोषप्रसङ्गादिति ।। सलोमापि चर्म निर्ग्रन्थानामुत्सर्गतो न कल्पते, यत आह[मा.३८२१] निग्गंथाण सलोमं, न कप्पती झुसिर तं तु पंचविहं ।
पोत्थग-तणपण दूसं, दुविहं चम्मम्मि पनगं च ॥ वृ-सलोम चर्म निर्ग्रन्थानां न कल्पते, शुषिरं जीवाश्रयस्थानमिति कृत्वा । अथ कतिविधं शुषिरम्? इति प्रश्रनावकाशमाशङ्कयाह-'तत्तु' शुषिरं पञ्चविधम्, तद्यथा-पुस्तकपञ्चकं तृणपञ्चकं दुष्यं-वस्त्रं तत्पञ्चकं द्विविधं' अप्रत्युपेक्ष्यदूष्यपञ्चकं दुःप्रत्युपेश्रयदूष्यपञ्चकंच चर्मपञ्चकं चेति।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org