________________
३७०
बृहत्कल्प-छेदसूत्रम् -२-३/८१ - 'उद्धर्षिता' खरण्टिता गाढं तेन भगवता सा संयती, यथा-निर्धर्मे ! ईशं दुःखमनुभूय भवत्या वैराग्यमपिन सातम्, मयाऽपि साधर्मिकेतिकृत्वा भवती चिकित्साकरणेन प्रगुणीकृता, इतरथा मृताअभविष्यत्। एवं सुठुअतीव ज्ञापिता सा 'आत्मानं' आत्मनो निरभिलाषतामित्यर्थः। ततश्च चर सम्प्रति निशका तपःकर्म, एवं शासित्वा 'सः' साधुः आवश्यकी 'चेतयति' गमनं करोतीत्यर्थः ।। अथ द्वितीयपदमाह[भा.३८०१] बिइयपयमणप्पज्झे, पविसे अविकोविए व अप्पज्झे ।
तेन-ऽगनि-आउसंभम, बोहिकतेनेसुजाणमवि ॥ कृ-द्वितीयपदे संयतीवसतौ 'अनात्मवशः' क्षिप्तचित्तादिको नैषेधिकीत्रयकरणमन्तरेणापि प्रविशेत् । आत्मशो वा यः 'अविकोविदः' शैक्षः सोऽप्यविधिना प्रविशेत् । यद्वा स्तेनाऽग्न्यकायसम्भ्रमेषु बोधिकस्तेनेषु वा 'जानन्नपि' गीतार्थोऽपि सहसा प्रविशेत् ।।
मू. (८२) नो कप्पइ निग्गंधणं निग्गंयउवस्सयंसि चिहित्तए वा जाव काउस्सग्गं वा ठाणं • ठाइत्तए।
कृ.अस्य सम्बन्धमाह[भा.३८०२] पडिवक्खेणं जोगो, तासि पि न कप्पती जतीणिलयं ।
निकारणगमणादी, जं जुअति तत्थ तं नेयं ॥ वृ. “पडिवक्खेणं" ति भावप्रधानत्वाद् निर्देशस्य प्रतिपक्षतया 'योगः' सम्बन्धः क्रियतेयथा निर्ग्रन्थानां निर्ग्रन्थ्युपाश्रयेगमनादिकं कर्तुंन कल्पते तथा 'तासामपि' निर्ग्रन्थीनां 'यतिनिलये निर्ग्रन्थोपाश्रये निष्कारणे गमनादिकं कर्तुं न कल्पते । एतर्थप्रतिपादनार्थमिदं सूत्रमारभ्यते । अत्र व यत्' प्रायश्चित्त-दोषजालादि पूर्वसूत्रोक्तं यत्र निष्कारणगमनादौ युज्यते तत्र तद् 'ज्ञेयं स्वबुद्धयाऽम्यूह्य ज्ञातव्यम् । अनेन सम्बन्धेनायातस्यास्य व्याख्या प्राग्वत् ।। अथ भाष्यम्[मा.३८०३] एसेव गमो नियमा, पनवण-परुवणासु अजाणं ।
पडिजग्गती गिलाणं, साहुं जतणाए अजा वि॥ कृ'एष एवं पूर्वसूत्रोक्तोगमोनियमात् प्रज्ञापना-प्ररुपणयोरार्याणामपि मन्तव्यः । प्रज्ञापना नाम-निष्कारणेऽविधिना प्रविशतीत्याधुल्लेखेन चतुर्मङ्गयाः सामान्यतः कथनम् । प्ररुपणापृथगेकैकमनकस्य स्वरुपनिरुपणम् । तथा साधुग्लानमार्याऽपि यतनया तथैव प्रतिजागतिः।।
नवरम्[भा.३८०४] सामग्गइसाधम्मिं, सन्नि अभिद्द संवरादी वा ।
देति य से वेदनयं, भत्तं पानं च पायोग्गं ॥ कृ-द्वितीय-तृतीय-चतुर्थमङ्गेषु 'सा' संयती साधर्मिकं साधु मार्गयति, तदप्राप्ती 'संज्ञिन' श्रावकम, तदलाभे यथाभद्रकम, तदभावे संवरं-स्नानिकाशोधकम, आदिशब्दादन्यमपि तथाविधं मार्गयति । यदि चासौ मुधिकया नेच्छति ततस्तस्य वेतनकमपि ददाति । भक्तं पानं च तस्य ग्लानस्य प्रायोग्यमुत्पादयति ॥ मू. (८३) नो कप्पइ निग्गंथीणं सलोमाइं चम्माइं अहिद्वित्तए ।
अथास्य सूत्रस्य कः सम्बन्धः? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org