________________
उद्देशकः ३, मूलं-८१, [भा.३७९४]
३६९
अहमसहिष्णुरस्मि; परमेवं स्वचेतसि निश्चिनोति, यथा-शब्दादिविषयांयतनां कुर्मः । एषा 'खलु' निश्चितं जिनानामाज्ञा ।। यतनामेवाह[भा.३७९५] सद्दम्मि हत्थ-वत्यादिएहि दिट्टिम्मि चिलिमिनंतरिओ।
संलावम्मि परम्मुहो, गोवालगकंचुतो फासे ॥ १. यद्यसौ साधुः शब्देऽसहिष्णुस्ततस्तां ग्लानां भणति-मा वचनेन मां व्यापारयेः, किन्तु हस्तेन वा वस्त्रेण वा अङ्गुल्या वा संज्ञां कुर्याः । यस्तु सृष्टिक्लीबः स सर्वमपि वैयावृत्त्यं चिलिमिलिकया अन्तरितः करोति । अथासौ संलापक्लीबस्ततोऽवश्यसंलपनीये पराङ्मुखः संलापं करोति । स्पर्शक्लीवस्तु गोपालककञ्चकमात्मना प्रावृत्य तस्याः सर्वमप्युद्वर्तनादिकृत्यं करोति ।। गतो द्वितीयभङ्गः । अथ तृतीय-चतुर्थभङ्गयोरतिदेशमाह[भा.३७९६] एसेव गमो नियमा, निग्गंथीए वि.होति असहूए ।
दोण्हं पि हु असहूणं, तिगिच्छ जयणाए कायव्वा ॥ वृ. 'एष एव' द्वितीयभङ्गोक्तः 'गमः' प्रकारो नियमाद् निर्ग्रन्थ्यामप्यसहिष्णौ कर्तव्यः । नवरंयांशब्दादियतमामसावात्मना कृतवान् तां सा संयती कारयितव्या । 'द्वयोरपि च' संयतीसंयतयोरसहिष्णवोः 'यतनया' द्वितीय-तृतीयभङ्गोक्त्या चिकित्सा कर्तव्या ।।
प्रगुणीभूता च काचिदिदं ब्रूयात्(भा.३७९७] आयंकविप्पमुक्का, हट्ठा बलिया य निब्बुया संती ।
अज्जा भणेज्ज काई, जेडजा! वीसमामो ता॥ -आतङ्केन-रोगेण विप्रमुक्ता सती हृष्टा समाता, तथा बलिका-उपचितमांस-शोणिता, निर्वृतास्वस्थीभूतन्द्रिया, एवंविधा सती काचिदार्यिका ब्रूयात्-ज्येष्ठार्य ! चिरं संयमभाराक्रान्तावावाम् अत एनं भारंपरित्यज्य यथासुखं किञ्चित् कालं तावद् 'विश्राम्यावः' विश्रामगृहीवः ।। किञ्च[भा.३७९८] दिद्वं च परामुटुं, च रहस्सं गुज्झ एक्कमेचस्स।
तंवीसमामो अम्हे, पच्छा वि तवं चरिस्सामो।। वृ- 'रहस्यम्' एकान्तयोग्यं यद् गुह्यं तद् मदीयं भवात मयाऽपि भवदीयमुद्वर्तनपरिवर्तनादिक्रियासु बहुश एकैकस्य दृष्टं परामृष्टं च, 'तत्' तस्माद् विश्राम्यावः किञ्चित् कालं 'पश्चात्' पश्चिमे काले तपश्चरिष्यावः ॥ [भा.३७९९] तं सोचा सो भगवं, संविग्गोऽवजभीरु दढधम्मो ।
अपरिमियसत्तजुत्तो,निकंपो मंदरो चेव ।। वृ-'तत् तस्या आर्यिकाया वचनं श्रुत्वा स भगवान् ‘संविग्नः' मोक्षाभिलाषी, अवयं-पापं ततो भीरु-चकितः, '४ढधर्मा' चारित्रे स्थिरः, अपरिमितम्-इयत्तारहितं यत् सत्वं-धृतिबलं तेन युक्तः, अत एव निष्कम्पः ‘मन्दर इव' मेरुगिरिखि । यथा हि मन्दरो वायुना न कम्प्यते एवं परिभोगनिमन्त्रणवायुना स भगवान् न कम्पितवान् ।। किन्तु[भा.३८००] उद्धंसिया य तेनं, सुटु वि जाणाविया य अप्पाणं ।
चरसु तवं निस्संका, उ सासियं सो उ चेतेइ ।। [19/24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org