________________
उद्देशक : ३, मूलं-८१, [भा. ३७८३]
३६७ यथा-नैष विरुद्धाभिप्रायेणात्र वसति । अपरेषांच’ साधूनां श्लाघनार्थम्, धनया अमी येषामेवंविधः सुदृष्टो धर्म इति ॥ [भा.३७८४] सो निजराए बट्टति, कुणति य आणं अनंतनाणीणं ।
स बितिजओ कहेती, परियट्टेगागि वसमाणो ।। वृ- “सः' साधुरेवं कुर्वन् विपुलायां निर्जरायां वर्तते, आज्ञां च 'अनन्तज्ञानिनां' तीर्थकृतां करोति । स च सद्वितीयो वसन्तस्य द्वितीयस्य धर्मं कथयति, अथैकाकी वसति ततः सर्वामपि रात्रि परिवर्तयति ।। [भा.३७८५] पडिजग्गिया य खिप्पं, दोण्ह सहूणं तिगिच्छ जतणाए।
तत्थेव गणहरो अन्नहिं व जयणाए तो नेइ ।। वृ-एवं तेन साधुना प्रतिजागरिता सा 'क्षिप्रं' शीघ्रं प्रगुणीभवेत् । इत्थं द्वयोः सहिष्ण्वोर्यतनया चिकित्साकरणमुक्तम् । तां च प्रगुणीभूतां गृहीत्वा यदि तस्या गणधरः 'तत्रैव' आसन्ने समस्ति ततस्तं गाढं खरण्टयित्वा तस्य समर्पयति । अथ 'अन्यत्र' दूरदेशे ततः सार्थेन सह तां तत्र प्रस्थापयति, स्वयं वा यतनया तत्र नयति ।। कथम् ? इत्याह[भा.३७८६] निक्कारणिगि चमढण, कारणिगि नेति अहव अप्पाहे ।
गणित्थि मिस्स संबंधि वज्जिते असति एगागी। वृ-यदि सा ग्लाना संयती निष्कारणं गणाद् निष्क्रम्यैकाकिनी भूता ततस्तां 'चमढयति' निर्भर्त्सयतीत्यर्थः । अथ कारणिका ततस्तां स्वयं नयति, येषां वा आचार्याणां सा संयती तेषां सन्दिशति, यथा-युष्माकं संयती साम्प्रतमत्र तिष्ठति, अस्या आनयनकृते सङ्घाटकः प्रहेयः । यदा पुनः स स्वयं नयति तदा इयं यतना-"गमणित्थि" इत्यादि । स्त्रीसार्थेन सम्बन्धिना समं प्रथमतो नयति, ततः स्त्रीसार्थेनैवसम्बन्धिमिश्रेण, ततः स्त्रीसार्थेनैवासम्बन्धिना । ततः पुरुषमिश्राभिरपि स्त्रीभिः-प्रथमं सम्बन्धिपुरुषयुक्ताभि, ततोऽसम्बन्धिमिश्रपुरुषयुक्ताभिः, ततोऽसम्बन्धिभिरपि । ततः पुरुषैरेव केवलैः-प्रथमं सम्बन्धिभि, ततोऽसम्बन्धिमित्रैः, ततोऽसम्बन्धिभिरपि समं नयति । एषां प्रकाराणामभावेस साधुरेकाक्यपि तां नयति, तत्र चात्मना पुरतो गच्छति, संयती तु नासन्ने नातिदूरे पृष्ठतः स्थिता आगच्छति ॥
गतः प्रथमो भगः । अथ द्वितीय भङ्गं विभावयिषुराह[भा.३७८७] न वि य समत्थो सब्बो, हवेज एतारिसम्मि कजम्भि।
कायब्बो पुरिसकारो, समाहिसंधाणणट्ठाए । दृ- 'साध्वी सहिष्णुः साधुरसहिष्णुः' इत्ययं भङ्गो भाव्यते-'नापि च' नैव सर्वोऽपि साधुः “एतादृशे स्त्रियाः स्पर्शादावपि मनोनिग्रहात्मके कार्ये समर्थो भवेत् ततः कि सा ग्लाना सती तेन परित्यक्तव्या? न इत्याह-ज्ञान-दर्शन-चारित्राणां यः समाधि-अन्योऽन्याविरोधेनैकत्रावस्थानं तस्य सन्धानार्थं तथा साधुना पुरुषकारः कर्तव्यः यथा तस्याश्चिकित्सा क्रियते आत्मनश्च शीलखण्डना न भवति ।। स पुनः साधुः कथमसहिष्णुर्भवति? इत्युच्यते[भा.३७८८] सोऊण य पासित्ता, संलावेणं तहेव फासेणं ।
एतेहि असहमाणे, तिगिच्छ जयणाइ कायव्वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org