________________
३६६
बृहत्कल्प-छेदसूत्रम् -२-३/८१ केन भवत्याः समाधिरुत्पद्यते? ।ततोय व्यमिच्छति तदेषणया शुद्धं शुद्धस्यालाभे पञ्चकहानि यतनयाऽपि गृहीत्वा दातव्यम् । ततः सा तथा श्रद्धाप्यते यथा 'परिज्ञाम्' अनशनं प्रतिपद्यते | अनशनप्रतिपन्नायाश्च सर्वप्रयत्नेन प्रतिचरणम् । धर्मकथा च तथा कर्तव्या यथा सम्यगुत्तमातमाराधयति।नमस्कारश्चतस्या मरणवेलायां दातव्यइत ।। क्रियासाध्याया विधिमाह[भा.३७७९] दव्वं तु जाणियब्वं, समाधिकारं तु जस्स जं होति ।
नायम्मि य दव्वम्भि, गवेसणा तस्स कायव्वा ।। क्यस्य रोगस्य यद्रव्यं पथ्यं यस्या वा ग्लानाया यत्समाधिकारकंतत्प्रथमत एव ज्ञातव्यम्। ज्ञाते च तस्मिन् द्रव्ये सर्वप्रयलेन तस्य गवेषणा कर्तव्या ।।। [भा.३७८०] सयमेव दिट्ठपाढी, करेति पुच्छति अजाणओ वेजं ।
दीवन दव्वादिम्मि य, उवदेसे ठाति जालंभो ॥ -वैद्यकशास्त्ररूपो दृष्टः पाठो येन स एवंविधः स्वयमेव चिकित्सां करोति । अथ 'अज्ञः' वैद्यकशास्त्राभिप्रायं न जानाति ततो वैद्यं पृच्छति । तस्य च वैद्यस्य दीपनं करोति, यथा-अहं कारणत एकाकी सातः, अतो मा अपशकुनं गृह्णध्वम् । ततो वैद्येन द्रव्य-क्षेत्र-काल-भावमेदात चतुर्विधे उपदेशे दत्ते सति ब्रवीति-यदि वयमेतत्र लभामहे ततः किं प्रयच्छामः ? । एवं पृष्टे भूयो द्रव्यान्तरे उपदिष्टे ब्रूते-यद्येतदपि न लभामहे ततः किं कर्तव्यम् ? । एवं तावत् पृच्छति यावद् यस्य द्रव्यस्य ध्रुवो लाभः । तदुपदेशे च पृच्छा तिष्ठति' उपरमत इत्यर्थः ।।
अथ रात्री विधिमाह[मा.३७८१] अब्मासे व वसेज्जा, संबद्ध उवस्सगस्स वा दारे ।
आगाढे गेलंन्ने, उवस्सए चिलिमिणिविभत्ते ॥ दृ-संयतीप्रतिश्रयस्य 'अभ्यासे' समीपे यदसम्बद्धमन्यगृहं तत्र वसेत्, तस्याभावे सम्बद्धेऽप्यन्यगृहे, तदभावे उपाश्रयस्य वा द्वारे । अथागाढं ग्लानकार्यं भवति तत उपाश्रयेऽपि चिलिमिलिकाविभक्ते वसति ।। किमर्थं पुनरुपाश्रयस्यान्तर्वसति? इत्याह[मा.३७८२] उव्वत्तण परियत्तण, उभयविगिंचट्ट पानगट्ठा वा।
तक्करभय भीरू अध, नमोकारठा वसे तत्थ ।। कृतस्या उद्वर्तनं परिवर्तनं वा कर्तुम्, उभयस्य वा-कायिकी-संज्ञालक्षणस्य विवेचनार्थम्, तृष्णााया वा रात्रौ पानकदानार्थम्, यद्वा तत्र तस्करभयं सा च संयती स्वाभावेनैव भीरु ततो भयरक्षणार्थम्, 'अथ' इति अथवा मरणवेलायाः प्रत्यात्रत्वाद् नमस्कारदानार्थं वा तत्र रात्री वसेत् ॥ . [भा.३७८३] धिइ-बलजुत्तो वि मुनी, सेज्जातर-सन्नि-सिज्झगादिजुतो।
वसति परपच्चयट्ठा, सलाहणट्ठा अवराणं॥ १. यद्यपि स मुनि सहिष्णुत्वाद् धृति-बलयुक्तस्तथापि शय्यातरेण संज्ञिना वा-श्रावकेण सिज्झकेन वा-सहवासिना युतः-सहितः संयतीप्रतिश्रये वसति।तंच शय्यातरादिकमित्थं भणतिन वर्तते ममैकाकिनः संयतीप्रतिश्रये रात्रौ वस्तुम्, अतो मम द्वितीयेन भवता भवितव्यम् । अथ किमर्थमेवं करोति? इति चेद् इत्याह-परप्रत्ययार्थ परेषाम् अगारिणांप्रतीत्युत्पादननिमित्तम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org