________________
उद्देशक : ३, मूलं-८१, [भा. ३७७३]
३६५ वृ-शय्यातरीभिः 'प्रतिहारिते' आर्याया ज्ञापिते सति प्रवेशः कर्त्तव्यः । प्रविष्टेन च तस्यविवक्षितस्य ग्लानकार्यस्य पूर्वोक्तया वक्ष्यमाणया च यतनया समापना कर्त्तव्या । एवं ग्लानत्वे तत्र स्थानादीनि पदानि कुर्यात् । तथा ग्लानकृत्यान्युत्सर्गतोऽशुद्धं परिहरन् करोति । अथ शुद्धं न प्राप्यते ततः “जउ"त्ति अनागाढे पञ्चकहान्या 'यतः' यतमानः करोति, "खिप्पं"ति आगाढे क्षिप्रमेव करोति । अथवाऽऽत्म-परोभयसमुत्थदोषान् परिहरमाणो ग्लानकृत्यं करोति, कुतः? इत्याह-"जतो खिप्पं"ति यत आत्मसमुत्यादिदोषान् अपरिहरतः क्षिप्रमेव संयमविराधना भवति।। कीदृशः पुनस्तां प्रतिजागर्ति? इत्युच्यते[भा.३७७४] पियधम्मो दढधम्मो, मियवादी अप्पकोतुहल्लो य ।
अजं गिलाणियं खलु, पडिजग्गति एरिसो साहू ।। वृ-प्रियः-इष्टो धर्मो यस्य स प्रियधर्मा । धर्मे यः हेढः-निश्चलो दधर्मा, राजदन्तादित्वाद् ढशब्दस्य पूर्वनिपातः । मितं-परिमिताक्षरं वदितुं शीलमस्येति मितवादी । अल्पशब्दस्य इह अभाववचनत्वाद् अल्पम्-अविद्यमानं कौतूहलं स्त्रीरूपदर्शनादिषु यस्य सोऽल्पकौतूहलः । ईशः साधुरायाँ ग्लानां प्रतिजागतिः॥ [भा.३७७५] सो परिणामविहिन्नू, इंदियदारेहि संवरियदारो ।
जं किंचि दुब्मिगंधं, सयमेव विगिचणं कुणति ।। वृ. 'सः' वैयावृत्तयकरः ‘वर्ण-गन्धादिभिः शुभा अपि भावा भूयोऽप्यशुभा भवन्ति, अशुभा अपि च संस्कारविशेषतो विश्रसया वा शुभा जायन्ते' इत्येवं पुद्गलानां परिणामविधिं जानातीति परिणामविधिज्ञः । तथा इन्द्रियद्वारेभ्यः संवृतद्वारः, इह “गम्ययपः कर्माधारे" इत्यनेन पञ्चमी, ततोऽयमर्थ-इन्द्रियरूपाणि द्वाराण्यधिकृत्य संवृतद्वारः, न पुनर्बाह्यद्वाराणि । ईशः साधुर्यत् किञ्चिदार्यिकायाः संज्ञादिकंदुरभिगन्धं तस्य स्वयमेव 'विवेचन' स्फेटनं परिष्ठापनं वा करोति।।
संवृतद्वारपदस्य सफलीकरणार्थमाह[भा.३७७६] गुन्झंग-वदन-कक्खोरुअंतरे तह थणंतरे दटुं । '
साहरति ततो दिढेि, न य बंधति दिट्ठिए दिहिं ।। वृ-गुह्याङ्गस्य वदनस्य कक्षाया ऊर्वोश्च यान्यन्तराणि-अवकाशास्तानि तथा स्तनान्तराणि च दृष्ट्वा 'संहरति' भास्करादिव ततो दृष्टिं निवर्तयति, 'नच नैव आर्यिकाया दृष्टी दृष्टिं 'बध्नाति' मीलयतीत्यर्थः ।। अथ 'यत् किञ्चिद् दुरभिगन्धम्' इत्यादि व्याचष्टे[भा.३७७७] उचारे पासवणे, खेले सिंघाणए विगिंचणया।
उव्वत्तण परियत्तण, नंतग निल्लेवण सरीरे ।। -उच्चारस्य प्रश्रवणस्य खेलस्य सिद्धानस्य च विवेचनं करोति।उद्वर्त्तनं नाम-तस्या उत्तानायाः पार्श्वतः करणम्, तत इतरस्यां दिशि स्थापनं परिवर्तनम्, ते अपि करोति। 'नन्तकं' वस्त्रं तथा शरीरं च यदि संज्ञया मूत्रेण वा लिप्तं ततस्तदपि निर्लेपयितव्यम् ॥ [भा.३७७८] किरियातीतं नाउं, जं इच्छति एसणाए जं तत्थ ।
सद्धावणा परिना, पडियरण कहा नमोक्कारो ।। - क्रियायां क्रियमाणायामपि या न प्रगुणीभवति सा क्रियातीता, तां ज्ञात्वा सा प्रष्टव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org