SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ ३६४ बृहत्कल्प-छेदसूत्रम् -२-३/८१ एषप्रथमो भङ्गः । " सो व सहु"त्ति साध्वी सहिष्णुः 'सच' साधुरसहिष्णुरिति द्वितीयः । “सा व होज ऊ असहु' त्ति 'सा' साध्वी असहिष्णुः साधुः सहिष्णुः, एष तृतीयः । साध्वी साधुश्च द्वावप्यसहिष्णू इति चतुर्थः । एतेषु चतुर्षु भङ्गेषु यतनया चिकित्सा कर्त्तव्या ॥ तत्र प्रथमभङ्ग तावद् भावयति [भा. ३७६९ ] सोऊण ऊ गिलाण, पंथे गामे व भिक्खवेलाए । जइ तुरियं नागच्छ, लग्गइ गुरुए चउम्मासे । वृ- श्रुत्वा ग्लानां संयतीं पथि वा परिभ्रमन् ग्रामे वा तिष्ठन् भिक्षावेलायां वा पर्यटन् यदि त्वरितं ग्लानासमीपं नागच्छति ततश्चतुरो मासान् गुरुकान् 'लगति' प्राप्नोति, अतो ग्लानां श्रुत्वा निर्जरामभिलषता सर्वेणाप्यक्षेपेणैव तस्याः समीपं गन्तव्यम् ।। कथं पुनस्तस्याः श्रवणं भवति ? उच्यते यत्र ग्रामे ग्लाना विद्यते तस्य बहिरदूरसमीपे व्यतिव्रजन्तं संयतं गृहस्थः कोऽपि ब्रूतेयुष्माकं ग्लानायाः प्रतिजागरणं क्रियते ? न क्रियते ? । साधुराह - सुष्ठु क्रियते ? । गृही ब्रवीतियद्येवं ततः [भा. ३७७० ] लोलंती छग-मुत्ते, सोउं घेत्तुं दवं तु आगच्छे । तूरंतो तं वसहिं, निवेयणं छायणऽज्जाए || वृ- एकाकिनी संयती 'छगण सूत्रे' आत्मीय एव पुरीष-प्रश्रवणे 'लोलन्ती' विलुठन्ती अत्र ग्रामे तिष्ठति । एवं श्रुत्वा तत एव 'द्रवं' पानकं गृहीत्वा त्वरमाणः संयतीवसतिमागच्छति । ततो बहिः स्थित्वा शय्यातरीपावदार्थिकाया निवेदनं कारयति, यथा- बहि साधुरागतोऽस्तीति । सा च शय्यातरी तस्या आर्यिकाया दुर्निवसितगात्राणां छादनं कुर्यात् । अथ सा न करोति तत आत्मनाऽपि यतनया तां छादयति । ततः स साधुस्तस्या इत्थं स्थिरीकरणं करोति [भा. ३७७१] आसासो वीसासो, मा भाहि इति थिरीकरण तीसे । धुविउं चीरऽत्थुरणं, तीसेऽप्पण बाहि कप्पो य ॥ बृ- 'आश्वासो नाम' धीरा भव, अहं ते सर्वमपि वैयावृत्त्यं करिष्ये । 'विश्वासस्तु' त्वं मम माता भगिनी दुहिता वा अतो मा मैषीः, एवं वयोऽनुरूपमविरुद्धं वचनं ब्रवीति । इत्यं तस्याः स्थिरीकरणं कृत्वा छगण-मूत्रलुलितां तां धावित्वा तस्या एवौपग्रहिकाणि चीवराणि तेषामभावे आत्मीयान्यपि संस्तारके आस्तृणाति तां वा परिधापयति । ततः खरण्टितचीवराणां प्रतिश्रयाद् हि कल्पो दातव्यः । भूमेरपि तस्या उपलेपनं कर्त्तव्यम् ॥ अथ प्रवेशविधिं विशेषत आह[भा. ३७७२] एएहि कारणेहिं, पविसंते ऊ निसीहिया तिन्नि । ठिचाणं कायव्वा, अंतर दूरे पवेसे य ॥ वृ- 'एतैः ' ग्लानत्वादिभिः कारणैः संयतीवसतौ प्रविशता तो नैषेधिक्यः कर्त्तव्याः । कथम्? इत्याह- 'स्थित्वा' प्रथमनैषेधिकीकरणानन्तरं कियन्तमपि कालं प्रतीक्ष्य द्वितीया नैषेधिकी, ततो द्वितीयानन्तरं तृतीयाऽप्येवमेव कर्त्तव्या । तथा प्रथमा नैषेधिकी 'दूरे' अग्रद्वारे, द्वितीया 'अन्तरे' मध्यभागे, तृतीया 'प्रवेशे' मूलद्वारे विधातव्या ॥ ततः [भा. ३७७३] पडिहारिए पवेसो, तक्कज्रसमाणणा य जयणाए । गेलने चिट्ठणादी, परिहरमाणो जतो खिप्पं ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy