________________
उद्देशक ः ३, मूलं-८१, [भा. ३७६३]
३६३ [भा.३७६३] नाऊण य मानुस्सं, सुदुल्लभं जीवियं च निस्सारं ।
संघस्स चेतियाण य, वच्छल्लत्तं करेज्जाहि ॥ वृ-ज्ञात्वा 'मानुष्यं मनुष्यभवं सुदुर्लभं जीवितं च निस्सारं मत्वा सङ्घस्य चैत्यानां च 'वत्सलत्वं' भक्तिं कुर्या इति ।। द्वितीयः पुनराह[भा.३७६४] किं काहिंति ममेते, पडलग्गतणं व मे जढा इट्टी।
को वाऽनिट्ठफलेसुं, विभवेसु चलेसु रज्जेज्जा ।। वृ-किं करिष्यन्ति मम ‘एते' अमात्यादयः ? पटलग्नतृणमिव मया राज्यऋद्धि "जढा" परित्यक्ता, अपि च राज्यादिविभवानां भुक्तानां ध्रुवं नरकपातः फलम्, चलाश्चामी सन्ध्याभ्ररागवत्, अतः को वाऽनिष्टफलेषुच विभवेषु ‘रज्येत' रागमनुबध्नीयात् ? । एवमुक्त्वा प्रकट एव प्रदेशे स्थितः सर्वानुपसर्गानभिभूय स संयममनुपालयति ॥
यस्तु तृतीयः स किं करोति? इत्याह[मा.३७६५] तइओ संजमअट्ठी, आयरिए पणमिऊण तिविहेणं ।
गेलन्नं नियडीए, अजाण उवस्सगमतीति ॥ वृ-तृतीयो राजपुत्रः संयमार्थी स गुरुभिरभिहितः-आर्य ! संयतीप्रतिश्रये निलीयस्व । स प्राह इच्छाम्यहं भगवद्वचनम्, निस्तारयत मांयेन केनापि प्रकारेणास्पादुपसर्गसमुद्रात्। एवमुक्त्वा सआचार्यान् 'त्रिविधेन' मनो-वाक्-कायकर्मणा प्रणम्य निकृत्या ग्लानत्वं कृत्वाऽऽर्याणामुपाश्रयं प्रविशति ।। [भा.३७६६] अंतद्धाणा असई, जइ मंसू लोय अंबिलीबीए।
पीसित्ता देति मुहे, अपगासे ठवेंति य विरेगो ।। वृ-यद्यन्तर्धानकारणमञ्जन-मन्त्रादि विद्यते ततः सोऽन्तर्हितः कृत्वा तत्रैव स्थाप्यते । अथ नास्त्यन्तर्धानकरणं ततः संयतीनेपथ्यं कारयित्वा तद्वसतिं नेतव्यः । यदि तस्य 'श्मश्रु' कूर्च विद्यते ततो लोचः क्रियते । अम्लिनीबीजानि च पिष्ट्वा तस्य मुखे ददति, तैर्मुखमालिम्पन्तीत्यर्थः। अप्रकाशे च प्रदेशे संयतीवसतौ तं स्थापयन्ति । विरेकश्च विरेचनकारकौषधप्रयोगेण क्रियते॥ [भा.३७६७] संथार कुसंघाडी, अमणुन्ने पानए य परिसेओ।
घंसण पीसण ओसह, अद्धिति खरकम्मि मा बोलं ।। वृ-संस्तारके स संयः शाय्यते । मलिनां त्रुटितां च कुसङ्घाटीं स प्रावरणं कार्यते । 'अमनोज्ञ' दुर्गन्धि पानकं तेन तस्य परिषेकः क्रियते । तथा काश्चन संयत्यस्तत्र चन्दनस्य घर्षणम् अन्यास्तु पेषणं औषधस्य कुर्वन्ति । अपराः पुनः करतलपर्यस्तमुखा भूमिगतसृष्टयोऽधृतिं कुर्वाणास्तिष्ठन्ति, 'खरकर्मिकेषु च' राजपुरुषेषु समागतेषुभणन्ति-मा बोलं कुरुत, एषा प्रवर्तिनी ग्लाना न युष्मदीयं बोलं सहते । एवमसौ तत्र संयतीवेषेण तिष्ठन् सर्वाण्यपि स्थाननिषदनादीनि पदानि कुर्यात् ।। गतं 'प्रच्छादना च शैक्षे' इति द्वारम् । अथ 'असहिष्णोश्चतुष्कभजना' इति द्वारं बिभावयिषुराह[भा.३७६८] दोनि वि सहू भवंती, सो वऽसहू सा व होज्ज ऊ असहू।
दोण्हं पि उ असहूणं, तिगिच्छ जयणाय कायव्वा ।। वृ-यस्या ग्लानसाध्व्याश्चिकित्सा क्रियते यश्च तस्याः प्रतिचरकः तौ द्वावपि सहिष्णू भवतः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org