________________
उद्देशक : ३, मूलं - ८१,
[भा. ३७४२ ]
३५९
व्युत्सर्जनीयमिति भावः । एवं व्युत्सृष्टमपि त्रिविधम् । एषु त्रिष्वपि तस्याः स्थिरीकरणार्थं सूरिणा गन्तव्यम् । यावत् ‘कालगता सा संयती' इति वार्त्ता श्रुता, तां च श्रुत्वा तस्याः शरीरमहिमार्थं गणधरः स्वयमेव गच्छेत् ॥
[मा. ३७४३] जाहे वि य कालगया, तेहा वि य दुन्नि तिन्नि वा दिवसे । गच्छेज संजईणं, अनुसट्ठि गणहरो बाउं ॥
वृ-यदापि च प्रवर्त्तिनीप्रभृतिका महानिनादसंयती कालगता भवति तदा द्वौ त्रीन् वा दिवसान् यतीनामनुशिष्टिं प्रदातुं गणधरो गच्छेत् ।। गतं "गम्यते कारणजाते" इति मूलद्वारम् । अथ प्राघुणकद्वारमाह
[मा. ३७४४] अप्प बिति अप्पतितिया, पाहुणया आगया सउवचारा । सिज्जायर मामाए, पडिकुटुद्देसिए पुच्छा ||
वृ- प्राघुर्णकाः साधव आत्मद्वितीया आत्मतृतीया वा तत्रागताः, तैश्च तत्र श्रुतम्, यथाअत्र संयत्यस्तिष्ठन्ति ततस्ते तासां वसतिं सोपचाराः प्रविशन्ति । सोपचारा नाम-त्रिषु स्थानेषु । प्रयुक्तनैषेधिकीशब्दाः, यद्वा संयतीभिर्येषां वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते । तेषु समागतेषु प्रवर्त्तिनी यदि स्थविरा तत आत्मद्वितीया निर्गच्छति, अथ तरुणी तत आत्मतृतीया । या च तत्र स्थविरा सा पुरतस्तिष्ठत । ततः साधवः शय्यातरकुलं मामाककुलं प्रतिकुष्टकुलानि च-रजकादिसम्बन्धीनि औद्देशिकं च येषु कुलेषु क्रियते तानि प्रवर्त्तिन्याः समीपे पृच्छन्ति ॥
अथोपचारं व्याख्याति
[भा. ३७४५] आसंदग कट्टमओ, मिसिया वा पीढगं व कट्टमयं । तक्खणलं असई, पडिहारिग पेहऽभोगऽन्ने ||
वृ- यदि साधुषु समागतेषु तत्क्षश्रणादेव काष्ठमय आसन्दकोऽशुषिरादिगुणोपेतः प्राप्यते, वृषिका व काष्ठमयं वा पीठकं लभ्यते ततस्तदानीमेव तद् ग्रहीतव्यम् । अथ तत्क्षणादेवासन्दकादि न लभ्यते ततोऽनागतं प्रातिहारिकं गृहीत्वा स्थापयन्ति । "पेह"त्ति तच्चोभयसन्ध्यं प्रत्युपेक्षन्ते । "भोगऽन्ने "त्ति अकारप्रश्लेषादन्यो नाम- संयतीजनस्तस्य प्रातिहारिकस्य भोगं न करोति । ततस्ते तत्रोपविष्टाः संयतीनां निराबाधादिवार्त्ता पृष्टवा शय्यातरकुलादीनि पृच्छन्ति ॥ अथ केन विधिना ते पृच्छन्ति ? केन वा विधिना तास्तेषां दर्शयन्ति ? इत्युच्यते
[भा. ३७४६ ]
बाहाइ अंगुलीइ व, लट्ठीइ व उज्जुअं ठिओ संतो ।
न पुच्छेज्ज न दाएजा, पञ्चावाया भवे तत्थ ||
वृ- शय्यातरादिकुलं पृच्छन् दर्शयन् वा 'बाहया' बाहुं प्रसार्य, एवमङ्गुल्या वा यष्टया वा गृहस्य 'ऋजुकं' सम्मुखं स्थितः सन् न पृच्छेद् न वा दर्शयेत् । कुतः ? इत्याह-यतस्तत्रैवं पृच्छयमाने दर्श्यमाने वा प्रत्यपाया बहवो भवन्ति ।। तानेवाह
[भा. ३७४७] तेनेहि अगनिना वा, जीवियववरोवणं व पडिनीए ।
खरए खरिया सुण्हा, नट्टे वट्टक्खुरे संका ॥
वृ- बाह्लादिकं प्रसार्य साधुना यद् गृहं पृष्टम् संयत्या वा दर्शितम् ततः स्तेनैः किञ्चिदपहृतं भवेत्, अग्निना वा तद् गृहं दग्धम्, प्रत्यनीकेन वा तस्मिन् गृहे कस्यापि जीवितव्यपरोपणं कृतम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org